श्रवणम्

7.65.2
ता हि दे॒वाना॒मसु᳚रा॒ ताव॒र्या ता नः᳚ क्षि॒तीः क᳚रतमू॒र्जय᳚न्तीः ।
अ॒श्याम᳚ मित्रावरुणा व॒यं वां॒ द्यावा᳚ च॒ यत्र᳚ पी॒पय॒न्नहा᳚ च ॥
▶ पदपाठः (Word-by-word)
ता । हि । दे॒वाना᳚म् । असु᳚रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय᳚न्तीः ।
अ॒श्याम᳚ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा᳚ । च॒ । यत्र᳚ । पी॒पय᳚न् । अहा᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता हि तौ खलु देवौ देवानां मध्ये असुरा बलवन्तौ अर्या अर्यौ तौ सर्वस्येश्वरौ ता तौ नोस्माकं क्षितीः पुत्रादिरूपाः प्रजा ऊर्जयन्तीः प्रवृद्धाः करतं कुरुतम् । हे मित्रावरुणा मित्रावरुणौ वयं वां युवां अश्याम व्याप्नुयाम यत्र यस्यां युवयोर्व्याप्तौ द्यावा द्यावापृथिव्यौ सर्वदा तयोः सहभावादयमर्थोलभ्यते अहा च एतद्रात्रेरुपलक्षणम् अहोरात्राणि च पीपयन् अस्मान्प्याययेयुः ॥ २ ॥