सर्गो॒ न सृ॒ष्टो अर्व᳚तीरृता॒यञ्च॒कार᳚ म॒हीर॒वनी॒रह᳚भ्यः ॥
पदपाठः (Word-by-word)
सर्गः᳚ । न । सृ॒ष्टः । अर्व᳚तीः । ऋ॒त॒॑यन् । च॒कार᳚ । म॒हीः । अ॒वनीः᳚ । अह᳚॑भ्यः ॥
सायणभाष्यम् (Sayana Commentary)
अयं वरुणोदेवः सूर्याय सर्वस्य प्रेरकायादित्याय पथोमार्गान् अन्तरिक्षप्रदेशान् प्ररदत् प्रायच्छत् समुद्रिया समुद्रे उदधौ भवानि यद्वा समुद्रवन्त्यस्मादापइति समुद्रमन्तरिक्षं तत्र भवान्यर्णांस्युदकानि नदीनां नदीः प्रति प्रासृजत् सर्गोन सृज्यते युद्धभूमौ सादिनाप्रेर्यतइ- ति सर्गोश्वः सयथा सृष्टः प्रेरितः अर्वतीः वडवाः प्रति शीघ्रं गच्छति तद्वत् ऋतायन् ऋतं शीघ्रं गमनमात्मनइच्छन् महीर्महतीः अवनीरात्रीः अहभ्यः अहोभ्यः सकाशात् चकार भेदेन कृतवान् अस्तंगच्छन् सूर्यएव वरुणइत्युच्यते सहि स्वगमनेन रात्रीर्जनयति ॥ १ ॥