श्रवणम्

7.87.3
परि॒ स्पशो॒ वरु᳚णस्य॒ स्मदि᳚ष्टा उ॒भे प᳚श्यन्ति॒ रोद᳚सी सु॒मेके᳚ ।
ऋ॒तावा᳚नः क॒वयो᳚ य॒ज्ञधी᳚रा॒ः प्रचे᳚तसो॒ य इ॒षय᳚न्त॒ मन्म᳚ ॥
▶ पदपाठः (Word-by-word)
परि᳚ । स्पशः᳚ । वरु᳚णस्य । स्मत्॑इ᳚ष्टाः । उ॒भे इति᳚ । प॒श्य॒न्ति॒ । रोद᳚सी॒ इति᳚ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ ।
ऋ॒त॑वा᳚नः । क॒वयः᳚ । य॒ज्ञ॑धी᳚राः । प्र॑चे᳚तसः । ये । इ॒षय᳚न्त । मन्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्पशन्ति स्पृशंतीति स्पशश्चाराः वरुणस्य देवस्य स्पशश्चाराः स्मदिष्टाः स्मदित्ये तत्प्रशस्यार्थे सहार्थेच वर्तते प्रशस्तगतयः यद्वा सहप्रे- षिताः सन्तः सुमेके शोभनमेहने सुरूपेवा उभे रोदसी द्यावापृथिव्यौपरिश्यन्ति परितईक्षन्ते उभयोर्लोकयोर्वर्तमानान् पुण्यापुण्यकारि- णोजनान्पश्यन्तीत्यर्थः यस्मादेवंतस्मात् तद्भीत्या ऋतावानः कर्मवन्तः यज्ञधीराः यज्ञेषु कृतबुद्धयः प्रचेतसः प्राज्ञाः कवयः क्रान्त- दर्शिनोयेजनाः मन्म मन्मानि स्तोत्राणि इषयन्त गमयन्ति वरुणं प्रापयन्ति तानपि परिपश्यन्तीत्यर्थः अतोस्मानपि स्तोतॄन् ज्ञात्वा पापान्मुञ्चत्वित्यृषिराशास्ते ॥ ३ ॥