उ॒वाच᳚ मे॒ वरु᳚णो॒ मेधि᳚राय॒ त्रिः स॒प्त नामाघ्न्या᳚ बिभर्ति ।
वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो᳚चद्यु॒गाय॒ विप्र॒ उप᳚राय॒ शिक्ष᳚न् ॥
वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो᳚चद्यु॒गाय॒ विप्र॒ उप᳚राय॒ शिक्ष᳚न् ॥
पदपाठः (Word-by-word)
उ॒वाच᳚ । मे॒ । वरु᳚णः । मेधि᳚राय । त्रिः । स॒प्त । नाम᳚ । अघ्न्या᳚ । बि॒भ॒र्ति॒ ।
वि॒द्वान् । प॒दस्य᳚ । गुह्या᳚ । न । वो॒च॒त् । यु॒गाय᳚ । विप्रः᳚ । उप᳚राय । शिक्ष᳚न् ॥
वि॒द्वान् । प॒दस्य᳚ । गुह्या᳚ । न । वो॒च॒त् । यु॒गाय᳚ । विप्रः᳚ । उप᳚राय । शिक्ष᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
मेधिराय मेधाविने मे मत्द्यं वरुण उवाच उक्तवान् किमुक्तवान् तदाह त्रिः सप्त एकविंशतिसंख्याकानि नाम नामानि अघ्न्या गौर्बिभर्ति धारयतीति वागत्रगौरुच्यते साच उरसि कंण्ठे शिरसिच बद्धानि गायत्र्यादीनि सप्तछन्दसां नामानि बिभर्ति । यद्वा वेदात्मिकावाक् एकविंशतिसंस्थानां यज्ञानां नामानि बिभर्ति धारयति । अपरआह गौः पृथिवी तस्या श्च गौः ग्मा ज्मेति पठितान्येकविंशतिनामानीति । अपिच विद्वान् जानन् विप्रोमेधावी सवरुणः युगाय युक्ताय उपराय उपसमीपे रममाणाय अन्तेवासिने मत्द्यं शिक्षन् उपदिशन् पदस्यो- त्कृष्टस्य स्थानस्य ब्रह्मलोकलक्षणस्य संबन्धीनि गुत्द्या गुत्द्यानि रहस्यानि उपदेशगम्यानि नशब्दश्चार्थे नामानि च वोचत् उक्तवान् अतोहं वरुणस्यशिष्योस्मि तस्मात्सवरुणोस्मात् पापात् मोचयत्वित्यर्थः ॥ ४ ॥