श्रवणम्

7.87.6
अव॒ सिन्धुं॒ वरु᳚णो॒ द्यौरि᳚व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि᳚ष्मान् ।
ग॒म्भी॒रशं᳚सो॒ रज᳚सो वि॒मानः᳚ सुपा॒रक्ष᳚त्रः स॒तो अ॒स्य राजा᳚ ॥
▶ पदपाठः (Word-by-word)
अव᳚ । सिन्धु᳚म् । वरु᳚णः । द्यौः॑इ᳚व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि᳚ष्मान् ।
ग॒म्भी॒र॑शं᳚सः । रज᳚सः । वि॒॑मानः᳚ । सु॒पा॒र॑क्ष᳚त्रः । स॒तः । अ॒स्य । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यौरिव सूर्यइव दीप्तोवरुणः सिन्धुं समुद्रं अवस्थात् वेलायामवस्थापयति यथावेलां नातिक्रामति तथा करोतीत्यर्थः । कीदृशोवरुणः द्रप्सोन द्रवणशीलउदकबिन्दुरिव श्वेतः शुभ्रवर्णः मृगः लुप्तोपममेतत् गौरमृगइव तुविष्मान बलवान् प्रवृद्धोवा गंभीरशंसः गंभीरोमहान् शंसः स्तोत्रं यस्य सतथोक्तः रजसः उदकस्य विमानोनिर्माता सुपारक्षत्रः सुष्ठु दुःखात् पारकं क्षत्रं बलं धनं वा यस्य तादृशोवरुणः सतो- विद्यमानस्यास्य जगतोराजा ईश्वरोभवति ॥ ६ ॥