सप्तमं मण्डलम् - सूक्तम् 67

10 ऋचः

ऋषिः: वसिष्ठः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 7.67 - सम्पूर्णम्

1 / 10
ऋक्: 7.67.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
7.67.1
प्रति᳚ वां॒ रथं᳚ नृपती ज॒रध्यै᳚ ह॒विष्म᳚ता॒ मन᳚सा य॒ज्ञिये᳚न ।
यो वां᳚ दू॒तो न धि᳚ष्ण्या॒वजी᳚ग॒रच्छा᳚ सू॒नुर्न पि॒तरा᳚ विवक्मि ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । वा॒म् । रथ᳚म् । नृ॒प॒ती॒ इति᳚ नृ॑पती । ज॒रध्यै᳚ । ह॒विष्म᳚ता । मन᳚सा । य॒ज्ञिये᳚न ।
यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी᳚गः । अच्छ᳚ । सू॒नुः । न । पि॒तरा᳚ । वि॒व॒क्मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृपती नृणां ऋत्विग्यजमानानां स्वामिनावश्विनौ वां युवयोरथं जरध्यै जरा स्तुतिः स्तोतुं प्रतिगच्छामीतिशेषः केन साधनेनेति तदुच्यते हविष्मता हविर्युक्तेन यज्ञियेन यज्ञार्हेण मनसा स्तोत्रेण योरथोवां हे धिष्णयौ धिषणार्हौ धिषणा स्तुतिः वां युवां दूतोन दूतइव अजीगर्जागरयति प्रबोधयति अस्मान्प्रतिगन्तुं तं रथमच्छाविवक्मि आवच्मि प्रबोधनेदृष्टान्तः सूनुर्न पितरा पुत्रोमातापित- राविव अथवा अत्रयोरथोयुवामजीगः तेन रथेन गन्तुं बुध्यमानौ युवामच्छाविवक्मीति वा योज्यम् ॥ १ ॥

7.67.2
अशो᳚च्य॒ग्निः स᳚मिधा॒नो अ॒स्मे उपो᳚ अदृश्र॒न्तम᳚सश्चि॒दन्ता᳚ः ।
अचे᳚ति के॒तुरु॒षसः᳚ पु॒रस्ता᳚च्छ्रि॒ये दि॒वो दु᳚हि॒तुर्जाय᳚मानः ॥
▶ पदपाठः (Word-by-word)
अशो᳚चि । अ॒ग्निः । स॒म्॑इ॒धा॒नः । अ॒स्मे इति᳚ । उपो॒ इति᳚ । अ॒दृ॒श्र॒न् । तम᳚सः । चि॒त् । अन्ताः᳚ ।
अचे᳚ति । के॒तुः । उ॒षसः᳚ । पु॒रस्ता᳚त् । श्रि॒ये । दि॒वः । दु॒हि॒तुः । जाय᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे अस्माभिः समिधानः समिध्यमानः सन् अग्निः अशोचि दीप्यते तमसश्चित् तमसोपि अन्ताः पर्यन्ताः प्रदेशाः उपो अदृश्रन् उपदृ- श्यन्ते सर्वैः केतुः सर्वस्य प्रज्ञापकः सूर्योदिवोदुहितुरुषसः पुरस्तात्पूर्वस्यां दिशि श्रिये शोभायै जायमानः सन् अचेति ज्ञायते यस्मादेवं तस्मात् युवयोः आगमनसमयः अतआगच्छतमिति शेषः ॥ २ ॥

7.67.3
अ॒भि वां᳚ नू॒नम᳚श्विना॒ सुहो᳚ता॒ स्तोमै᳚ः सिषक्ति नासत्या विव॒क्वान् ।
पू॒र्वीभि᳚र्यातं प॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒ वसु᳚मता॒ रथे᳚न ॥
▶ पदपाठः (Word-by-word)
अ॒भि । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । सु॑हो᳚ता । स्तोमैः᳚ । सि॒स॒क्ति॒ । ना॒स॒त्या॒ । वि॒व॒क्वान् ।
पू॒र्वीभिः᳚ । या॒त॒म् । प॒थ्या᳚भिः । अ॒र्वाक् । स्वः॒॑विदा᳚ । वसु᳚॑मता । रथे᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ वां युवां सुहिता सुष्ठु देवानां स्तोता विवक्वान् स्तुतीनां वक्ताहं हे नासत्या सत्यभूतौ इदमश्विनावित्यत्रयोज्यं नूनमद्य स्तोमैः अभीसिषक्ति सेवते अतोर्वागस्मद्भिमुखं पूर्वीभिः पथ्याभिः पूर्वक्षुण्णैर्मार्गैः स्वर्विदा स्वर्गमुदकंवा जानता स्वरणवता वा वसुमता धनवता वा रथेन यातं गच्छतम् ॥ ३ ॥

7.67.4
अ॒वोर्वां᳚ नू॒नम᳚श्विना यु॒वाकु᳚र्हु॒वे यद्वां᳚ सु॒ते मा᳚ध्वी वसू॒युः ।
आ वां᳚ वहन्तु॒ स्थवि᳚रासो॒ अश्वा॒ः पिबा᳚थो अ॒स्मे सुषु᳚ता॒ मधू᳚नि ॥
▶ पदपाठः (Word-by-word)
अ॒वोः । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वाकुः᳚ । हु॒वे । यत् । वा॒म् । सु॒ते । मा॒ध्वी॒ इति᳚ । व॒सु॒॑युः ।
आ । वा॒म् । व॒ह॒न्तु॒ । स्थवि᳚रासः । अश्वाः᳚ । पिबा᳚थः । अ॒स्मे इति᳚ । सु॑सु᳚ता । मधू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ अवोः रक्षित्रोः वां युवाभ्यां युवां कामयमानोहं नूनमद्य स्वभूतोभवामीति शेषः यद्यस्मात् हे माध्वी मधुरस्य सोमस्यार्हौ मधुविद्यासंबन्धिनौ वा वां युवां सुते अभिषुते सोमे वसूयुर्वसुकामोहुवे स्तौमि अतोवां स्वभूतः वां युवां आवहन्तु के स्थविरासः स्थूलाः प्रवृद्धा अश्वाएतयोरतिप्रवृद्धात्वात् शीघ्रगतेरपेक्षितत्वाच्च स्थविरैरेव भाव्यम् आगमनानन्तरं अस्मे अस्माभिः सुषुता सुष्ठु अभिषुतानि मधूनि मधुररसान् पिबाथः पिबतम् ॥ ४ ॥

7.67.5 समानपद
प्राची᳚मु देवाश्विना॒ धियं॒ मे॑मृ᳚ध्रां सा॒तये᳚ कृतं वसू॒युम् ।
विश्वा᳚ अविष्टं॒ वाज॒ आ पुरं᳚धी॒स्ता नः᳚ शक्तं शचीपती॒ शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
प्राची᳚म् । ऊं॒ इति᳚ । दे॒वा॒ । अ॒श्वि॒ना॒ । धिय᳚म् । मे॒ । अमृ᳚ध्राम् । सा॒तये᳚ । कृ॒त॒म् । व॒सु॒॑युम् ।
विश्वाः᳚ । अ॒वि॒ष्ट॒म् । वाजे᳚ । आ । पुर᳚म्॑धीः । ता । नः॒ । श॒क्त॒म् । श॒ची॒प॒ती॒ इति᳚ शची॑पती । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ देवा देवौ युवां प्राचीं ऋज्वीं अमृध्रां अहिंसितां वसूयुं धनमिच्छन्तीं मे मम धियं बुद्धिं स्तुतिं कर्मवा सातये लाभाय उचितां कृतम् कुरुतम् । उःपूरणः किञ्च वाजे आ सङ्ग्रामेपि विश्वाः पुरन्धीरस्मदीया बुद्धीरविष्टं रक्षतम् । हे शचीपती शचीति कर्म नाम कर्मणां पालकौ ता तौ युवां शचीभिः अस्मदीयैः स्तुत्यादिरूपैः कर्मभिर्नोस्मान् शक्तं प्रयच्छतं धनमितिशेषः ॥ ५ ॥

7.67.6
अ॒वि॒ष्टं धी॒ष्व᳚श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र᳚यं नो अस्तु ।
आ वां᳚ तो॒के तन᳚ये॒ तूतु᳚जानाः सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम ॥
▶ पदपाठः (Word-by-word)
अ॒वि॒ष्टम् । धी॒षु । अ॒श्वि॒ना॒ । नः॒ । आ॒सु । प्र॒जा॑व᳚त् । रेतः᳚ । अह्र᳚यम् । नः॒ । अ॒स्तु॒ ।
आ । वा॒म् । तो॒के । तन᳚ये । तूतु᳚जानाः । सु॒॑रत्ना᳚सः । दे॒व॑वी᳚तिम् । ग॒मे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ नोस्मान् आसु धीषु एषु कर्मसु अविष्टं रक्षतम् नोस्मभ्यं अह्रयं अक्षीणं प्रजावत पुत्राद्युपेतं पुत्रोत्पादनसमर्थं रेतोस्तु वां युवयोरनुग्रहात लब्धे तोके पुत्रे तनये तत्पुत्रादौच तूतुजानाः अभिमतं धनं प्रयच्छन्तः सूरत्नासः शोभनधनाश्च सन्तोदेववीतिं देवानां वीतिः प्राप्तिर्यस्मिन तादृशं यज्ञं आगमेम आगच्छेम ॥ ६ ॥

7.67.7
ए॒ष स्य वां᳚ पूर्व॒गत्वे᳚व॒ सख्ये᳚ नि॒धिर्हि॒तो मा᳚ध्वी रा॒तो अ॒स्मे ।
अहे᳚ळता॒ मन॒सा या᳚तम॒र्वाग॒श्नन्ता᳚ ह॒व्यं मानु᳚षीषु वि॒क्षु ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । वा॒म् । पू॒र्व॒गत्वा᳚॑इव । सख्ये᳚ । नि॒॑धिः । हि॒तः । मा॒ध्वी॒ इति᳚ । रा॒तः । अ॒स्मे इति᳚ ।
अहे᳚ळता । मन᳚सा । आ । या॒त॒म् । अ॒र्वाक् । अ॒श्नन्ता᳚ । ह॒व्यम् । मानु᳚षीषु । वि॒क्षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषरतोदीयमानः स्यः सः युवयोः प्रियत्वेन प्रसिद्धः सोमो हे माध्वी मधुप्रियावश्विनौ वां युवयोः पुरतः निधिः निधिस्थानीयोहितः स्थापितोस्मेस्माभीरातोदत्तः संकल्पितः संनिहितः किमिव सख्ये सख्यार्थं पूर्वगत्वेव पुरतोगन्ता दूतइव सयथा प्रियं जनयन् स्वामिनः पुरतोवर्तते तद्वदित्यर्थः यस्मादेवं तस्मात् अहेळता अक्रुध्यता मनसा अनुग्रहयुक्तेन चेतसा अर्वागस्मदभिमुखं आयातम् आगच्छतम् । अश्नन्ता हव्यं हविः सोमादिकं अश्नन्तौ अभ्यवहरन्तौ कुत्र मानुषीषु विक्षु मनुष्यरूपासु प्रजासु वर्तमानम् ॥ ७ ॥

7.67.8
एक᳚स्मि॒न्योगे᳚ भुरणा समा॒ने परि᳚ वां स॒प्त स्र॒वतो॒ रथो᳚ गात् ।
न वा᳚यन्ति सु॒भ्वो᳚ दे॒वयु᳚क्ता॒ ये वां᳚ धू॒र्षु त॒रण᳚यो॒ वह᳚न्ति ॥
▶ पदपाठः (Word-by-word)
एक᳚स्मिन् । योगे᳚ । भु॒र॒णा॒ । स॒मा॒ने । परि᳚ । वा॒म् । स॒प्त । स्र॒वतः᳚ । रथः᳚ । गा॒त् ।
न । वा॒य॒न्ति॒ । सु॒॑भ्वः᳚ । दे॒व॑यु᳚क्ताः । ये । वा॒म् । धूः॒॑सु । त॒रण᳚यः । वह᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भुरणा सर्वस्य भर्तारौ युवयोरेकस्मिन्समाने उभयसाधारणे योगेस्मद्विषये सति वां युवयोः रथः सप्तस्रवतः सर्पणस्वभावाः सप्तसङ्ख्याकावा गङ्गाद्याः परिगात् परिगच्छति शीघ्रमागच्छतीत्यर्थः तद्रथाश्वाः सुभ्वः सुभवनाः देवयुक्ताः देवाभ्यां युवाभ्यां युक्ताः अश्वाः शीघ्रगमने न वायन्ति न सुष्यन्ति नश्राम्यन्ते येश्वाः वां धूर्षु रथस्य तरणयः तारकाः शीघ्रगन्तारोवहन्ति युवां ते न वायन्तीति ॥ ८ ॥

7.67.9
अ॒स॒श्चता᳚ म॒घव᳚द्भ्यो॒ हि भू॒तं ये रा॒या म᳚घ॒देयं᳚ जु॒नन्ति᳚ ।
प्र ये बन्धुं᳚ सू॒नृता᳚भिस्ति॒रन्ते॒ गव्या᳚ पृ॒ञ्चन्तो॒ अश्व्या᳚ म॒घानि᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स॒श्चता᳚ । म॒घव᳚त्॑भ्यः । हि । भू॒तम् । ये । रा॒या । म॒घ॒॑देय᳚म् । जु॒नन्ति᳚ ।
प्र । ये । बन्धु᳚म् । सू॒नृता᳚भिः । ति॒रन्ते᳚ । गव्या᳚ । पृ॒ञ्चन्तः᳚ । अश्व्या᳚ । म॒घानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

असश्चता कुत्राप्यसज्यमानौ युवां मघवद्भ्यो हविष्मद्भ्यो यजमानेभ्यः तेषामर्थाय भूतं हि भवतं तेभ्यएवानुरक्तौ भवतम् । अनुग्राह्या- एव विशेष्यन्ते ये राया धनेन निमित्तेन राया युक्तावा मघदेयं दातव्यं मघं धनं हविर्लक्षणं वा जुनन्ति प्रेरयन्ति यच्छन्ति येच बन्धुं स्नेहेन बध्नातीति बन्धुः तं स्वसंबन्धिनं अथवा फलेन बध्नातीति बन्धुरध्वर्य्वादिः तं सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः प्रतिरन्ते प्रवर्धयन्ति । प्रपूर्वस्तिरतिर्वर्धनार्थः किं कुर्वन्तः गव्या गोरूपाणि अश्व्या अश्वरूपाणि च मघानि धनानि पृञ्चन्तोर्थिभ्यः प्रयच्छन्तः तेभ्योमघवद्भ्योभूतमिति ॥ ९ ॥

7.67.10
नू मे॒ हव॒मा शृ᳚णुतं युवाना यासि॒ष्टं व॒र्तिर᳚श्विना॒विरा᳚वत् ।
ध॒त्तं रत्ना᳚नि॒ जर᳚तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । मे॒ । हव᳚म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा᳚॑वत् ।
ध॒त्तम् । रत्ना᳚नि । जर᳚तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे युवाना नित्ययौवनौ नु अद्य युवां मे हवमस्मदीयां स्तुतिं आशृणुतं श्रुत्वा च हे अश्विनौ इरावत् हविर्युक्तं वर्तिर्गृहं यासिष्टं आगच्छतम् आगत्यच रत्नानि रमणीयानि धनानि धत्तं दत्तं सूरीन् स्तोतॄन् जरतं वर्धयतं धातूनामनेकार्थत्वात् । शिष्टं यूयं पातस्वस्तिभिः सदानः स्पष्टम् ॥ १० ॥

आशुभ्रायातमिति नवर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं आश्विनम् आदितः सप्तविराजः अष्टमीनवम्यौ त्रिष्टुभौ अनुक्तम्यते च-आशु- भ्रानव सप्ताद्याविराजइति सूक्तविनियोगोलैंगिकः ।