श्रवणम्

7.67.2
अशो᳚च्य॒ग्निः स᳚मिधा॒नो अ॒स्मे उपो᳚ अदृश्र॒न्तम᳚सश्चि॒दन्ता᳚ः ।
अचे᳚ति के॒तुरु॒षसः᳚ पु॒रस्ता᳚च्छ्रि॒ये दि॒वो दु᳚हि॒तुर्जाय᳚मानः ॥
▶ पदपाठः (Word-by-word)
अशो᳚चि । अ॒ग्निः । स॒म्॑इ॒धा॒नः । अ॒स्मे इति᳚ । उपो॒ इति᳚ । अ॒दृ॒श्र॒न् । तम᳚सः । चि॒त् । अन्ताः᳚ ।
अचे᳚ति । के॒तुः । उ॒षसः᳚ । पु॒रस्ता᳚त् । श्रि॒ये । दि॒वः । दु॒हि॒तुः । जाय᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे अस्माभिः समिधानः समिध्यमानः सन् अग्निः अशोचि दीप्यते तमसश्चित् तमसोपि अन्ताः पर्यन्ताः प्रदेशाः उपो अदृश्रन् उपदृ- श्यन्ते सर्वैः केतुः सर्वस्य प्रज्ञापकः सूर्योदिवोदुहितुरुषसः पुरस्तात्पूर्वस्यां दिशि श्रिये शोभायै जायमानः सन् अचेति ज्ञायते यस्मादेवं तस्मात् युवयोः आगमनसमयः अतआगच्छतमिति शेषः ॥ २ ॥