श्रवणम्

7.67.8
एक᳚स्मि॒न्योगे᳚ भुरणा समा॒ने परि᳚ वां स॒प्त स्र॒वतो॒ रथो᳚ गात् ।
न वा᳚यन्ति सु॒भ्वो᳚ दे॒वयु᳚क्ता॒ ये वां᳚ धू॒र्षु त॒रण᳚यो॒ वह᳚न्ति ॥
▶ पदपाठः (Word-by-word)
एक᳚स्मिन् । योगे᳚ । भु॒र॒णा॒ । स॒मा॒ने । परि᳚ । वा॒म् । स॒प्त । स्र॒वतः᳚ । रथः᳚ । गा॒त् ।
न । वा॒य॒न्ति॒ । सु॒॑भ्वः᳚ । दे॒व॑यु᳚क्ताः । ये । वा॒म् । धूः॒॑सु । त॒रण᳚यः । वह᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भुरणा सर्वस्य भर्तारौ युवयोरेकस्मिन्समाने उभयसाधारणे योगेस्मद्विषये सति वां युवयोः रथः सप्तस्रवतः सर्पणस्वभावाः सप्तसङ्ख्याकावा गङ्गाद्याः परिगात् परिगच्छति शीघ्रमागच्छतीत्यर्थः तद्रथाश्वाः सुभ्वः सुभवनाः देवयुक्ताः देवाभ्यां युवाभ्यां युक्ताः अश्वाः शीघ्रगमने न वायन्ति न सुष्यन्ति नश्राम्यन्ते येश्वाः वां धूर्षु रथस्य तरणयः तारकाः शीघ्रगन्तारोवहन्ति युवां ते न वायन्तीति ॥ ८ ॥