प्रति᳚ वां॒ रथं᳚ नृपती ज॒रध्यै᳚ ह॒विष्म᳚ता॒ मन᳚सा य॒ज्ञिये᳚न ।
यो वां᳚ दू॒तो न धि᳚ष्ण्या॒वजी᳚ग॒रच्छा᳚ सू॒नुर्न पि॒तरा᳚ विवक्मि ॥
यो वां᳚ दू॒तो न धि᳚ष्ण्या॒वजी᳚ग॒रच्छा᳚ सू॒नुर्न पि॒तरा᳚ विवक्मि ॥
पदपाठः (Word-by-word)
प्रति᳚ । वा॒म् । रथ᳚म् । नृ॒प॒ती॒ इति᳚ नृ॑पती । ज॒रध्यै᳚ । ह॒विष्म᳚ता । मन᳚सा । य॒ज्ञिये᳚न ।
यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी᳚गः । अच्छ᳚ । सू॒नुः । न । पि॒तरा᳚ । वि॒व॒क्मि॒ ॥
यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी᳚गः । अच्छ᳚ । सू॒नुः । न । पि॒तरा᳚ । वि॒व॒क्मि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे नृपती नृणां ऋत्विग्यजमानानां स्वामिनावश्विनौ वां युवयोरथं जरध्यै जरा स्तुतिः स्तोतुं प्रतिगच्छामीतिशेषः केन साधनेनेति तदुच्यते हविष्मता हविर्युक्तेन यज्ञियेन यज्ञार्हेण मनसा स्तोत्रेण योरथोवां हे धिष्णयौ धिषणार्हौ धिषणा स्तुतिः वां युवां दूतोन दूतइव अजीगर्जागरयति प्रबोधयति अस्मान्प्रतिगन्तुं तं रथमच्छाविवक्मि आवच्मि प्रबोधनेदृष्टान्तः सूनुर्न पितरा पुत्रोमातापित- राविव अथवा अत्रयोरथोयुवामजीगः तेन रथेन गन्तुं बुध्यमानौ युवामच्छाविवक्मीति वा योज्यम् ॥ १ ॥