श्रवणम्

7.67.10
नू मे॒ हव॒मा शृ᳚णुतं युवाना यासि॒ष्टं व॒र्तिर᳚श्विना॒विरा᳚वत् ।
ध॒त्तं रत्ना᳚नि॒ जर᳚तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । मे॒ । हव᳚म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा᳚॑वत् ।
ध॒त्तम् । रत्ना᳚नि । जर᳚तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे युवाना नित्ययौवनौ नु अद्य युवां मे हवमस्मदीयां स्तुतिं आशृणुतं श्रुत्वा च हे अश्विनौ इरावत् हविर्युक्तं वर्तिर्गृहं यासिष्टं आगच्छतम् आगत्यच रत्नानि रमणीयानि धनानि धत्तं दत्तं सूरीन् स्तोतॄन् जरतं वर्धयतं धातूनामनेकार्थत्वात् । शिष्टं यूयं पातस्वस्तिभिः सदानः स्पष्टम् ॥ १० ॥

आशुभ्रायातमिति नवर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं आश्विनम् आदितः सप्तविराजः अष्टमीनवम्यौ त्रिष्टुभौ अनुक्तम्यते च-आशु- भ्रानव सप्ताद्याविराजइति सूक्तविनियोगोलैंगिकः ।