अ॒स॒श्चता᳚ म॒घव᳚द्भ्यो॒ हि भू॒तं ये रा॒या म᳚घ॒देयं᳚ जु॒नन्ति᳚ ।
प्र ये बन्धुं᳚ सू॒नृता᳚भिस्ति॒रन्ते॒ गव्या᳚ पृ॒ञ्चन्तो॒ अश्व्या᳚ म॒घानि᳚ ॥
प्र ये बन्धुं᳚ सू॒नृता᳚भिस्ति॒रन्ते॒ गव्या᳚ पृ॒ञ्चन्तो॒ अश्व्या᳚ म॒घानि᳚ ॥
पदपाठः (Word-by-word)
अ॒स॒श्चता᳚ । म॒घव᳚त्॑भ्यः । हि । भू॒तम् । ये । रा॒या । म॒घ॒॑देय᳚म् । जु॒नन्ति᳚ ।
प्र । ये । बन्धु᳚म् । सू॒नृता᳚भिः । ति॒रन्ते᳚ । गव्या᳚ । पृ॒ञ्चन्तः᳚ । अश्व्या᳚ । म॒घानि᳚ ॥
प्र । ये । बन्धु᳚म् । सू॒नृता᳚भिः । ति॒रन्ते᳚ । गव्या᳚ । पृ॒ञ्चन्तः᳚ । अश्व्या᳚ । म॒घानि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
असश्चता कुत्राप्यसज्यमानौ युवां मघवद्भ्यो हविष्मद्भ्यो यजमानेभ्यः तेषामर्थाय भूतं हि भवतं तेभ्यएवानुरक्तौ भवतम् । अनुग्राह्या- एव विशेष्यन्ते ये राया धनेन निमित्तेन राया युक्तावा मघदेयं दातव्यं मघं धनं हविर्लक्षणं वा जुनन्ति प्रेरयन्ति यच्छन्ति येच बन्धुं स्नेहेन बध्नातीति बन्धुः तं स्वसंबन्धिनं अथवा फलेन बध्नातीति बन्धुरध्वर्य्वादिः तं सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः प्रतिरन्ते प्रवर्धयन्ति । प्रपूर्वस्तिरतिर्वर्धनार्थः किं कुर्वन्तः गव्या गोरूपाणि अश्व्या अश्वरूपाणि च मघानि धनानि पृञ्चन्तोर्थिभ्यः प्रयच्छन्तः तेभ्योमघवद्भ्योभूतमिति ॥ ९ ॥