सप्तमं मण्डलम् - सूक्तम् 66

19 ऋचः

ऋषिः: वसिष्ठः देवता: मित्रावरुणौ छन्दः: गायत्री

सूक्तम् 7.66 - सम्पूर्णम्

1 / 19
ऋक्: 7.66.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
7.66.1
प्र मि॒त्रयो॒र्वरु᳚णयो॒ः स्तोमो᳚ न एतु शू॒ष्य᳚ः ।
नम᳚स्वान्तुविजा॒तयो᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । मि॒त्रयोः᳚ । वरु᳚णयोः । स्तोमः᳚ । नः॒ । ए॒तु॒ । शू॒ष्यः᳚ ।
नम᳚स्वान् । तु॒वि॒॑जा॒तयोः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रयोर्वरुणयोः मित्रावरुणयोरित्यर्थः उभयत्रप्रीतियोगापेक्षया द्विवचनत्वम् तुविजातयोः बहुप्रादुर्भावयोर्देवयोः नोस्मदीयः शूष्यः सुखकरोनमस्वानन्नवान् हविर्भिर्युक्तः स्तोमः स्तोत्रं प्रैतु गच्छतु अहोरात्रंवैमित्रावरुणावितिश्रुतिः । अनयोरहोरात्रापेक्षत्वात्तयोः पुनः- पुनरागमनादनयोस्तुविजातत्वम् अथवा बहूनामुपकारायानयोः प्रादुर्भावात्तुविजातत्वम् ॥ १ ॥

7.66.2
या धा॒रय᳚न्त दे॒वाः सु॒दक्षा॒ दक्ष᳚पितरा ।
अ॒सु॒र्या᳚य॒ प्रम᳚हसा ॥
▶ पदपाठः (Word-by-word)
या । धा॒रय᳚न्त । दे॒वाः । सु॒॑दक्षा᳚ । दक्ष᳚॑पितरा ।
अ॒सु॒र्या᳚य । प्र॑म᳚हसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

या यौ युवां धारयन्त के देवाः आदिकर्तारः असुयाय बलकरणाय कीदृशौ युवां सुदक्षा शोभनबलौ दक्षपितरा बलस्य पालकौ स्वामिनौ वा बलप्रदावित्यर्थः प्रमहसा प्रकृष्टतेजस्कौ तौ साधयतमित्युत्तरत्रान्वयः ॥ २ ॥

7.66.3
ता नः᳚ स्ति॒पा त᳚नू॒पा वरु᳚ण जरितॄ॒णाम् ।
मित्र᳚ सा॒धय᳚तं॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
ता । नः॒ । स्ति॒॑पा । त॒नू॒॑पा । वरु᳚ण । ज॒रि॒तॄ॒णाम् ।
मित्र᳚ । सा॒धय᳚तम् । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ स्तिपा स्त्यायन्तइति स्तयोग्रहाः तान्पातइतिस्तिपौ तनूपा तन्वः पातारौ हे वरुण हे मित्र उक्तलक्षणौ युवां जरितॄणां नोस्माकं धियः कर्माणि स्तुतिरूपाणि साधयतं सफलवन्ति कुरुतम् ॥ ३ ॥

7.66.4
यद॒द्य सूर॒ उदि॒ते॑ना᳚गा मि॒त्रो अ᳚र्य॒मा ।
सु॒वाति᳚ सवि॒ता भगः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । सूरे᳚ । उत्॑इ᳚ते । अना᳚गाः । मि॒त्रः । अ॒र्य॒मा ।
सु॒वाति᳚ । स॒वि॒ता । भगः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्धनमस्माकमपेक्षितं तदद्यास्मिन्काले सूरे उदिते सति प्रातःसवने अनागाः पापहन्ता मित्रः अर्यमा सविता भगश्चैते प्रत्येकं सुवाति प्रेरयेत अथवा अनागामित्रोर्यमा दाता भवतु तदीप्सितं धनं भगोभजनीयः सविता सुवाति प्रेरयतु ॥ ४ ॥

7.66.5
सु॒प्रा॒वीर᳚स्तु॒ स क्षय॒ः प्र नु याम᳚न्त्सुदानवः ।
ये नो॒ अंहो᳚॑ति॒पिप्र᳚ति ॥
▶ पदपाठः (Word-by-word)
सु॒प्र॒॑अ॒वीः । अ॒स्तु॒ । सः । क्षयः᳚ । प्र । नु । याम᳚न् । सु॒॑दा॒न॒वः॒ ।
ये । नः॒ । अंहः᳚ । अ॒ति॒॑पिप्र᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

सक्षयः सनिवासः सुपावीरस्तु सुष्ठु प्रकर्षेण रक्षितास्तु प्रशब्दआदरार्थः प्रकर्षेणा नु क्षिप्रं भवत्वितिशेषः कदेति उच्यते हे सुदानवः सुदानाः युष्माकं यामन यामनि गमनेसनि कीदृशानां गमने ये युयमागत्य नोस्माकं अंहः पापमतिपिप्रति अतिपारयथ तेषां गमनेइति ॥ ५ ॥

7.66.6
उ॒त स्व॒राजो॒ अदि᳚ति॒रद᳚ब्धस्य व्र॒तस्य॒ ये ।
म॒हो राजा᳚न ईशते ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्व॒॑राजः᳚ । अदि᳚तिः । अद᳚ब्धस्य । व्र॒तस्य᳚ । ये ।
म॒हः । राजा᳚नः । ई॒श॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच ये मित्रादयस्त्रयः स्वराजः सर्वस्य स्वामिनः अदितिः तेषां माता च सन्ति अदब्धस्य अहिंसितस्य महोमहतोव्रतस्यास्य कर्मणोराजानः स्वामिनः ते ईशते समर्थाभवन्ति अभिमतंदातुमितिशेषः । अथवैवं योज्यम् ते मित्रादयोदितिश्च अदब्धस्य व्रतस्य स्वराजईश्वरास्ते महोमहतोस्मदभिमतधनस्य राजानः स्वामिनः सन्तईशते अस्मभ्यं तद्दातुम् ॥ ६ ॥ प्रतियामित्येषतृचश्वातुर्विंशिकेहनि प्रातःसवने मैत्रावरुणस्य पर्यासार्थः सूत्रितश्च-प्रतिवांसूरउदितेव्यन्तरिक्षमतिरदिति ।

7.66.7
प्रति᳚ वां॒ सूर॒ उदि᳚ते मि॒त्रं गृ᳚णीषे॒ वरु᳚णम् ।
अ॒र्य॒मणं᳚ रि॒शाद᳚सम् ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । वा॒म् । सूरे᳚ । उत्॑इ᳚ते । मि॒त्रम् । गृ॒णी॒षे॒ । वरु᳚णम् ।
अ॒र्य॒मण᳚म् । रि॒शाद᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ मित्रं त्वां वरुणंच वां युवां रिशादसं शत्रूणामत्तारं अर्यमणं च प्रति प्रत्येकं गृणीषे स्तुवे कदेति उच्यते सूरे सूर्ये देवे उदिते सति प्रातरित्यर्थः ॥ ७ ॥

7.66.8
रा॒या हि᳚रण्य॒या म॒तिरि॒यम᳚वृ॒काय॒ शव᳚से ।
इ॒यं विप्रा᳚ मे॒धसा᳚तये ॥
▶ पदपाठः (Word-by-word)
रा॒या । हि॒र॒ण्य॒॑या । म॒तिः । इ॒यम् । अ॒वृ॒काय᳚ । शव᳚से ।
इ॒यम् । विप्रा᳚ । मे॒ध॑सा᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यया हितरमणीयेन राया धनेन सहिताय अवृकाय अहिंस्याय शवसेस्माकं बलाय इयमिदानीं क्रियमाणामतिः स्तुतिर्भवत्विति- शेषः हिरण्ययेत्यत्र सुपांसुलुगिति तृतीयैकवचनस्य याजादेशः । किञ्च हे विप्राःप्राज्ञाः इयमेवस्तुतिर्मेधसातये यज्ञलाभाय च भवतु ॥ ८ ॥

7.66.9
ते स्या᳚म देव वरुण॒ ते मि᳚त्र सू॒रिभि᳚ः स॒ह ।
इषं॒ स्व᳚श्च धीमहि ॥
▶ पदपाठः (Word-by-word)
ते । स्या॒म॒ । दे॒व॒ । व॒रु॒ण॒ । ते । मि॒त्र॒ । सू॒रि॑भिः᳚ । स॒ह ।
इष᳚म् । स्व१॒᳚रिति᳚ स्वः᳚ । च॒ । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव वरुण ते वयं तव स्तोतारः स्याम समृद्धाभवेम । न केवलं वयमेवयजमानाः किन्तु सूरिभिः स्तोतृभिरृत्विग्भिः सह तथा हे मित्रादेव ते वयं सूरिभिः सह स्याम भवेम किञ्च इषमन्नं स्वरुदकं च धीमहि धारयामहे ॥ ९ ॥ आश्विनशस्त्रे बहवः सूरचक्षसइति प्रगाथः सूत्रितञ्च-बहवःसूरचक्षसइति प्रगाथाइति । दशरात्रे पञ्चमेहनि प्रउगशस्त्रेप्ययंप्रगाथः सूत्रितञ्च-बहवः सूरचक्षसइमाउवांदिविष्टयइति ।

7.66.10
ब॒हव॒ः सूर᳚चक्षसो॑ग्निजि॒ह्वा ऋ᳚ता॒वृधः᳚ ।
त्रीणि॒ ये ये॒मुर्वि॒दथा᳚नि धी॒तिभि॒र्विश्वा᳚नि॒ परि᳚भूतिभिः ॥
▶ पदपाठः (Word-by-word)
ब॒हवः᳚ । सूर᳚॑चक्षसः । अ॒ग्नि॒॑जि॒ह्वाः । ऋ॒त॒॑वृधः᳚ ।
त्रीणि᳚ । ये । ये॒मुः । वि॒दथा᳚नि । धी॒ति॑भिः᳚ । विश्वा᳚नि । परि᳚भूति॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

बहवोमहन्तः सूरचक्षसः सूर्यसदृशप्रकाशाः सूरः प्रकाशकोयेषामितिवा अग्निजिह्वाः अग्निरेवजिह्वा अदनसाधनोयेषां तादृशाः ऋतावृ- धोयज्ञस्य वर्धयितारोमित्रादयः किञ्च ये त्रीणि विश्वानि व्याप्तानि विदथानि क्षित्यादिस्थानानि क्षित्यादीनि परिभूतिभिः परिभावुकैः धीतिभिः कर्मभिः येमुः प्रयच्छन्ति ते क्षत्रमाशतेत्युत्तरत्र संबन्धनीयम् । अथवात्रैव ये त्रीणिस्थानानि प्रयच्छन्ति ते बहुत्वादि गुणोपेताआगच्छन्त्वित्यध्याहार्यम् ॥ १० ॥

7.66.11
वि ये द॒धुः श॒रदं॒ मास॒मादह᳚र्य॒ज्ञम॒क्तुं चादृच᳚म् ।
अ॒ना॒प्यं वरु᳚णो मि॒त्रो अ᳚र्य॒मा क्ष॒त्रं राजा᳚न आशत ॥
▶ पदपाठः (Word-by-word)
वि । ये । द॒धुः । श॒रद᳚म् । मास᳚म् । आत् । अहः᳚ । य॒ज्ञम् । अ॒क्तुम् । च॒ । आत् । ऋच᳚म् ।
अ॒ना॒प्यम् । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । क्ष॒त्रम् । राजा᳚नः । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मित्रादयः शरदं संवत्सरं विदधुः अकुर्वन् आत् अनन्तरमेव मासं अनन्तरं अहः अनन्तरमहःसाध्यं यज्ञं आत् अनन्तरमक्तुं रात्रिञ्च ऋचं मन्त्रांश्च यद्वा सर्वत्र आदित्ययमपीत्यर्थे वर्तते तथा सति क्रमः अविवक्षितः ते वरुणोमित्रोर्यमा च त्रयः अनाप्यमन्यैरप्राप्तं क्षत्रं बलं राजानः राजमानाः आशत व्याप्तवन्तः ॥ ११ ॥

7.66.12
तद्वो᳚ अ॒द्य म᳚नामहे सू॒क्तैः सूर॒ उदि᳚ते ।
यदोह᳚ते॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा यू॒यमृ॒तस्य᳚ रथ्यः ॥
▶ पदपाठः (Word-by-word)
तत् । वः॒ । अ॒द्य । म॒ना॒म॒हे॒ । सु॒॑उ॒क्तैः । सूरे᳚ । उत्॑इ᳚ते ।
यत् । ओह᳚ते । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । यू॒यम् । ऋ॒तस्य᳚ । र॒थ्यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्प्रसिद्धमद्यास्मिन्यागकाले वोयुष्मान्मनामहे याचामहे कैः साधनैः सूक्तैः कस्मिन्काले सूरउदिते प्रातःकालइत्यर्थः यद्धनं हे ऋतस्योद- कस्य रथ्यः नेतारोयूयं वरुणादयः ओहते यूयमित्यजेन सामान् धिकरण्यादोहतइत्यत्र पुरुषव्यत्ययः ओहध्वइत्यर्थः तद्धनं मनाम- हइति ॥ १२ ॥

7.66.13
ऋ॒तावा᳚न ऋ॒तजा᳚ता ऋता॒वृधो᳚ घो॒रासो᳚ अनृत॒द्विषः᳚ ।
तेषां᳚ वः सु॒म्ने सु᳚च्छ॒र्दिष्ट᳚मे नर॒ः स्याम॒ ये च᳚ सू॒रयः᳚ ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚नः । ऋ॒त॑जा᳚ताः । ऋ॒त॒॑वृधः᳚ । घो॒रासः᳚ । अ॒नृ॒त॒॑द्विषः᳚ ।
तेषा᳚म् । वः॒ । सु॒म्ने । सु॒च्छ॒र्दिः॑त᳚मे । न॒रः॒ । स्याम᳚ । ये । च॒ । सू॒रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये यूयमृतावानः ऋतवन्तः राज्ञवन्तः उदकवन्तोवा ऋतजाताः उक्तः ऋतशब्दार्थः तदर्थयुत्पन्नाः अथवा ऋतात्प्रजापतेःसकाशादुत्पन्नाः ऋतावृधः उक्तार्थस्य ऋतस्य वर्धयितारः घोरासोघोसः अमृतद्विषः अयष्टृद्वेष्टारः हे नरः तेषः वोयुष्माकं सुछर्दिष्टमे सुखतमे सुम्र धने अत्यन्तरमणीयगृरुयुक्ते सुखे वा ये वयं येचान्ये सूरयः स्तोतारः ते सर्वे स्याम भवेम ॥ १३ ॥ स्तोमातिरेके माध्यन्दिनसवने नैमितिके शस्त्रे उदुत्यदित्ययं प्रगाथोनुरूपः सूत्रितञ्च-बण्महाँअसिसूर्योदुत्यद्दर्शतंवपुरिति प्रगाथौ स्तोत्रियानुरूपाविति । चातुर्विंशिकेहनि माध्यन्दिनसवने अयमेववैकल्पिकः स्तोत्रियस्तृचः सूत्रितञ्च-उदुत्यद्दर्शतंवपुरुदुत्येमधुम- त्तमाइति ।

7.66.14
उदु॒ त्यद्द᳚र्श॒तं वपु᳚र्दि॒व ए᳚ति प्रतिह्व॒रे ।
यदी᳚मा॒शुर्वह᳚ति दे॒व एत᳚शो॒ विश्व᳚स्मै॒ चक्ष᳚से॒ अर᳚म् ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । त्यत् । द॒र्श॒तम् । वपुः᳚ । दि॒वः । ए॒ति॒ । प्र॒ति॒॑ह्व॒रे ।
यत् । ई॒म् । आ॒शुः । वह᳚ति । दे॒वः । एत᳚शः । विश्व᳚स्मै । चक्ष᳚से । अर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यत् तत् दर्शतं दर्शनीयं वपुर्मण्डलं दिवोन्तरिक्षस्य प्रतिह्वरे समीपेउदु एति उदेति उइतिपूरणः यदीं यदेतन्मण्डलं आशुः शीघ्रगामी एतशो एतवर्णोश्वोवहति धारयति किमर्थं विश्वस्मै सर्वस्मै अरं चक्षसे सम्यक् सर्वलोकदर्शनाय ॥ १४ ॥

7.66.15
शी॒र्ष्णःशी᳚र्ष्णो॒ जग᳚तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः᳚ ।
स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वह᳚न्ति ह॒रितो॒ रथे᳚ ॥
▶ पदपाठः (Word-by-word)
शी॒र्ष्णः॑शी᳚र्ष्णः । जग᳚तः । त॒स्थुषः᳚ । पति᳚म् । स॒मया᳚ । विश्व᳚म् । आ । रजः᳚ ।
स॒प्त । स्वसा᳚रः । सु॒वि॒ताय᳚ । सूर्य᳚म् । वह᳚न्ति । ह॒रितः᳚ । रथे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शीर्ष्णःशीर्ष्णः सर्वस्यापिशिरसः तृतीयार्थे पञ्चमी स्वस्वशिरसेत्यर्थः सूर्यं वहन्तीत्यनेन संबध्यते अथवा शिरःशब्देन तद्वान् पदार्थो- लक्ष्यते वीप्सया तस्यकात्रुर्यमुच्यते सर्वस्य श्रेष्ठमित्यर्थः जगतोजङ्गमस्य तस्थुषः स्थावरस्य पतिं स्वामिनं रथे वर्ममानं सूर्यं सुविताय कल्याणाय विश्वं रजः समया सर्वलोकस्य समीपे अभितः परितः समयेत्यादिना समयाशब्दयोगात् द्वितीया । सप्त सप्तसङ्ख्याकाः स्वसारः अन्यनिरपेक्षेण स्वयमेव सरन्त्योहरितोहरिद्वर्णाअश्वा आवहन्ति ॥ १५ ॥

7.66.16
तच्चक्षु᳚र्दे॒वहि᳚तं शु॒क्रमु॒च्चर᳚त् ।
पश्ये᳚म श॒रदः᳚ श॒तं जीवे᳚म श॒रदः᳚ श॒तम् ॥
▶ पदपाठः (Word-by-word)
तत् । चक्षुः᳚ । दे॒व॑हि᳚तम् । शु॒क्रम् । उ॒त्॑चर᳚त् ।
पश्ये᳚म । श॒रदः᳚ । श॒तम् । जीवे᳚म । श॒रदः᳚ । श॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्पसिद्धं चक्षुः सर्वस्य प्रकाशकं देवहितं देवानां हितं तेषां हविः स्वीकारस्यैतदधीनत्वात् अथवा देवेन हितं शुक्रं निर्मलं सूर्यमण्डलं उच्चरत् उद्गच्छति तच्छरदः शतं शतसंवत्सरं पश्येम जीवेम शरदः शतं पुनः श्रुतिरादरार्था ॥ १६ ॥ पृष्ठ्याभिप्लवषडहयोःस्तोमनिमित्ते आवापे काव्येभिरदाभ्येतितृचः काव्येभिरदाभ्येति विस्रइति हि सूत्रितम् ।

7.66.17
काव्ये᳚भिरदा॒भ्या या᳚तं वरुण द्यु॒मत् ।
मि॒त्रश्च॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
काव्ये᳚भिः । अ॒दा॒भ्या॒ । आ । या॒त॒म् । व॒रु॒ण॒ । द्यु॒॑मत् ।
मि॒त्रः । च॒ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अदाभ्या अदंभनीयौ हे वरुण त्वं मित्रश्च द्युमत् द्युतिमन्तौ युवां काव्येभिरस्मत्कृतैः स्तोत्रैरायातम् किमर्थं सोमपीतये सोमपानाय ॥ १७ ॥

7.66.18
दि॒वो धाम᳚भिर्वरुण मि॒त्रश्चा या᳚तम॒द्रुहा᳚ ।
पिब᳚तं॒ सोम᳚मातु॒जी ॥
▶ पदपाठः (Word-by-word)
दि॒वः । धाम᳚॑भिः । व॒रु॒ण॒ । मि॒त्रः । च॒ । आ । या॒त॒म् । अ॒द्रुहा᳚ ।
पिब᳚तम् । सोम᳚म् । आ॒तु॒जी इत्या᳚॑तु॒जी ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुण त्वं मित्रश्च अद्रुहा अद्रोग्धारौ युवां दितोद्युलोकसबन्धिभ्योधामभिः धामभ्यः स्थानेभ्यः पञ्चम्यर्थेतृतीया अथवा धामभिस्ते- जोभिः विभूतिभिः सार्धं आयातं अस्मद्यज्ञमागच्छतम् आगत्य च आतुजी शत्रूणां सर्वतोहिंसकौ आदातारौ वा धनानाम् । एवं रूपौ सन्तौ सोमं पिबतम् । तुजि पिजि हिंसाबलादाननिकेतनेपु अत्र हिंसायां आदाने वा वर्तते ॥ १८ ॥

7.66.19
आ या᳚तं मित्रावरुणा जुषा॒णावाहु᳚तिं नरा ।
पा॒तं सोम᳚मृतावृधा ॥
▶ पदपाठः (Word-by-word)
आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । जु॒षा॒णौ । आ॑हु᳚तिम् । न॒रा॒ ।
पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुणौ हे नरा यागनेतारौ आहुतिं सोमलक्षणां जुषाणौ प्रीयमाणौ सन्तौ आयातं आगच्छतम् यज्ञम् आगत्य च हे ऋतावृधा यज्ञस्य वर्धकौ युवां सोमं पातं पिबतम् ॥ १९ ॥

प्रतिवां रथमिति दशर्चं द्वादशं सूक्तं प्रतिवां दशाश्विनंतुतदित्यनुक्रमणिका । ऋषिर्वसिष्ठः छन्दस्त्रिष्टुप् तुह्यादिपरिभाषयैतदादी- न्यष्टसूक्तान्यश्विदेवत्यानि प्रातरनुवाके आश्विनेक्रतौ त्रैष्टुभेछन्दसि एतदादिसूक्तसप्तकं द्वितीयवर्जं शंस्यम् तथाचसूत्रम्-प्रतिवांरथ- मितिसप्तानां द्वितीयमुद्धरेदिति ।