सप्तमं मण्डलम् - सूक्तम् 14

3 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: बृहती

सूक्तम् 7.14 - सम्पूर्णम्

1 / 3
ऋक्: 7.14.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
7.14.1
स॒मिधा᳚ जा॒तवे᳚दसे दे॒वाय᳚ दे॒वहू᳚तिभिः ।
ह॒विर्भि᳚ः शु॒क्रशो᳚चिषे नम॒स्विनो᳚ व॒यं दा᳚शेमा॒ग्नये᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इधा᳚ । जा॒त॑वे᳚दसे । दे॒वाय᳚ । दे॒वहू᳚ति॑भिः ।
ह॒विः॑भिः᳚ । शु॒क्र॑शो᳚चिषे । न॒म॒स्विनः᳚ । व॒यम् । दा॒शे॒म॒ । अ॒ग्नये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदसे जातवेदसं जातप्रज्ञं अग्नये अग्निं समिधा वयं वसिष्ठाः दाशेम परिचरेम । देवाय देवं स्तुत्यमग्निं देवहूतिभिर्देवस्तुतिर्भि दाशेम । शुक्रशोचिषे शुभ्रशोचिषं शुभ्रदीप्तिं नम स्विनोहविष्मन्तोवयं हविर्भिर्दाशेम । अत्र दाशतियोगात् कर्मणि चत्गुर्थी प्रायेण सर्वत्र दाश- तियोगे कर्मणिचतुर्थी दृश्यते ॥ १ ॥

7.14.2
व॒यं ते᳚ अग्ने स॒मिधा᳚ विधेम व॒यं दा᳚शेम सुष्टु॒ती य᳚जत्र ।
व॒यं घृ॒तेना᳚ध्वरस्य होतर्व॒यं दे᳚व ह॒विषा᳚ भद्रशोचे ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । अ॒ग्ने॒ । स॒म्॑इधा᳚ । वि॒धे॒म॒ । व॒यम् । दा॒शे॒म॒ । सु॒॑स्तु॒ती । य॒ज॒त्र॒ ।
व॒यम् । घृ॒तेन᳚ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । व॒यम् । दे॒व॒ । ह॒विषा᳚ । भ॒द्र॒॑शो॒चे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वां वयं वसिष्ठाः समिधा विधेम परिचरेम । हे यजत्र यष्टव्याग्ने वयं सुष्ठुती शोभनया स्तुत्या दाशेम त्वां परिचरेम । अध्वरस्य यज्ञस्य होतरग्ने वयं घृतेनाज्येन त्वां दाशेम । हे भद्रशोचे कल्याणज्वाल देव द्योतमानाग्ने त्वां वयं हविषा दाशेम ॥ २ ॥

7.14.3
आ नो᳚ दे॒वेभि॒रुप᳚ दे॒वहू᳚ति॒मग्ने᳚ या॒हि वष᳚ट्कृतिं जुषा॒णः ।
तुभ्यं᳚ दे॒वाय॒ दाश᳚तः स्याम यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । दे॒वेभिः᳚ । उप᳚ । दे॒व॑हू᳚तिम् । अग्ने᳚ । या॒हि । वष᳚ट्॑कृतिम् । जु॒षा॒णः ।
तुभ्य᳚म् । दे॒वाय᳚ । दाश᳚तः । स्या॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोस्माकं देवहूतिं स्तोत्रं यज्ञंवा देवेभिः देवैः सार्धं वषट् कृतिं हविः जुषाणः सेवमानस्त्वं उप आयाहि । देवाय द्योतमानाय तुभ्यं वयं दाशतः परिचरन्तः स्याम भवेम । सिद्धमन्यत् ॥ ३ ॥

उपसद्यायेति पञ्चदशर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं गायत्रमाग्नेयं तथाचानुक्रान्तं-उपसद्याय पंचोना गायत्रमिति प्रातरनुवाके आग्नेये- क्रतौ गायत्रेछन्दसि आश्विनशस्त्रे चेदं सूक्तं सूत्रितं च-उपसद्याय त्वमग्नेयज्ञानामिति तिस्रउत्तमाउद्धरेदिति । उपसदि पौर्वाह्णिक्यां उअपसद्यायेत्याद्यास्तिस्रऋचः सामिधेन्यः सूत्र्यते च-उपसद्यायमीह्ळुषइति तिस्रः एकैकां त्रिरनवानमिति । पवित्रेष्ट्यां अग्नेरक्षांसी- त्येषा प्रथमाज्यभागानुवाक्या सूत्रितं च-पावकवन्तावाज्यभागावग्नी रक्षांसिसेधतीति । अन्वारंभणीयायां अग्नेर्भगिनोयाज्या सूत्रितं च-आसवंसवितुर्यथा सनोराधांस्याभरेति । स्वस्त्ययन्यामिष्टौ अग्नेरक्षाणइतिप्रथमाज्यभागानुवाक्या सूत्रितं च-स्वस्त्ययन्यांरक्षित- वन्तावग्नेरक्षाणोअंहसइति ।