श्रवणम्

7.14.2
व॒यं ते᳚ अग्ने स॒मिधा᳚ विधेम व॒यं दा᳚शेम सुष्टु॒ती य᳚जत्र ।
व॒यं घृ॒तेना᳚ध्वरस्य होतर्व॒यं दे᳚व ह॒विषा᳚ भद्रशोचे ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । अ॒ग्ने॒ । स॒म्॑इधा᳚ । वि॒धे॒म॒ । व॒यम् । दा॒शे॒म॒ । सु॒॑स्तु॒ती । य॒ज॒त्र॒ ।
व॒यम् । घृ॒तेन᳚ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । व॒यम् । दे॒व॒ । ह॒विषा᳚ । भ॒द्र॒॑शो॒चे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वां वयं वसिष्ठाः समिधा विधेम परिचरेम । हे यजत्र यष्टव्याग्ने वयं सुष्ठुती शोभनया स्तुत्या दाशेम त्वां परिचरेम । अध्वरस्य यज्ञस्य होतरग्ने वयं घृतेनाज्येन त्वां दाशेम । हे भद्रशोचे कल्याणज्वाल देव द्योतमानाग्ने त्वां वयं हविषा दाशेम ॥ २ ॥