सप्तमं मण्डलम् - सूक्तम् 101

6 ऋचः

ऋषिः: वसिष्ठः कुमारो वाग्नेयः देवता: पर्जन्यः छन्दः: त्रिष्टुप्

सूक्तम् 7.101 - सम्पूर्णम्

1 / 6
ऋक्: 7.101.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.101.1
ति॒स्रो वाच॒ः प्र व᳚द॒ ज्योति᳚रग्रा॒ या ए॒तद्दु॒ह्रे म᳚धुदो॒घमूधः᳚ ।
स व॒त्सं कृ॒ण्वन्गर्भ॒मोष᳚धीनां स॒द्यो जा॒तो वृ᳚ष॒भो रो᳚रवीति ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । वाचः᳚ । प्र । व॒द॒ । ज्योतिः᳚॑अग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒॑दो॒घम् । ऊधः᳚ ।
सः । व॒त्सम् । कृ॒ण्वन् । गर्भ᳚म् । ओष᳚धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य निःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ सप्तमोव्याख्यायते-सप्तममण्डलस्य षष्ठेनुवाके द्वादशसूक्तानि व्याख्यातानि । तिस्रोवाचइतिषळृचं त्रयोदशं सूक्तम् अत्रानुक्रम्यते-तिस्रःषट् पार्जन्यंत्विति । एते कुमार आग्नेयोपश्यद्वसिष्ठएववेति वक्ष्यमाणत्वाद- ग्निपुत्रः कुमारऋषिः वसिष्ठोवा अनुक्तत्वान्त्रिष्टुप् इदमुत्तरञ्च पर्जन्यदैवत्यम् । अत्र शौनकः-आस्यदघ्नं विगात्द्यापः प्राङ्मुखः प्रयतः शुचिः । सूक्ताभ्यां तिस्रआदिभ्यामुपतिष्ठेत भास्करम् । अनश्नतैतज्जप्तव्यं वृष्टिकामेन यत्नतः । पंचरात्रेप्यतिक्रान्ते महतीं वृष्टिमाप्नु- यादिति ॥

ऋषिरात्मानं स्तुतौ प्रेरयति हे ऋषे तिस्रः त्रिविधाः ऋग्यजुःसामात्मिकाः स्तुतिरूपावाचः प्रवद प्रब्रूहि कीदृश्योवाचःज्योतिर्द्योतमानः प्रण्वःअग्रे प्रमुखोयासांतादृशीः या वाचः मधुदोघं मधुनउदकस्य दोहकं वृष्ट्युदकस्य कर्तारं एतत् नभसि दृश्यमानं ऊधः उद्धतं मेघं यद्वा लुप्तोपममेतत् ऊध इव पयसआश्रयभूतं मेघं दुह्रे दुहते दुहेर्लटिलोपस्तआत्मनेपदेष्विति तलोपः बाहुलकोरुट् स्तोत्रैःप्रीतोहि पर्जन्यः मेघैर्वर्षयति अतो वाचएव दुहन्तीत्युपचर्यते यद्वा वदेति व्यत्ययेन मध्यमः तिस्रइति द्रुतविलम्बितमध्यमभेदेन त्रिविधाः ज्योतिरग्राः विद्युत्प्रमुखावाचः प्रवदतेति या गर्जितलक्षणावाचः वृष्टिप्रदमेतं मेघं दुह्रे उदकानि दुहन्ति एवंभूतः सच पर्जन्यः वत्सं सह निवसन्तं वैद्युताग्निं कृण्वन्प्रादुष्कुर्वन् तमेव ओषधीनां व्रीत्द्यादीनांच गर्भं कुर्वन् सद्यः शीघ्रं जातः प्रादुर्भूतो वृषभो वर्षितासन् रोरवीति भृशं शब्दायते ॥ १ ॥

7.101.2
यो वर्ध᳚न॒ ओष᳚धीनां॒ यो अ॒पां यो विश्व᳚स्य॒ जग᳚तो दे॒व ईशे᳚ ।
स त्रि॒धातु᳚ शर॒णं शर्म᳚ यंसत्त्रि॒वर्तु॒ ज्योति᳚ः स्वभि॒ष्ट्य१॒᳚स्मे ॥
▶ पदपाठः (Word-by-word)
यः । वर्ध᳚नः । ओष᳚धीनाम् । यः । अ॒पाम् । यः । विश्व᳚स्य । जग᳚तः । दे॒वः । ईशे᳚ ।
सः । त्रि॒॑धातु᳚ । श॒र॒णम् । शर्म᳚ । यं॒स॒त् । त्रि॒॑वर्तु᳚ । ज्योतिः᳚ । सु॒॑अ॒भि॒ष्टि । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पर्जन्य ओषधीनां वर्धनो वर्धयिता यश्च अपामुदकानां वर्धकः यश्च देवोद्योतमानः पर्जन्यो विश्वस्य सर्वस्य जगतः ईशे ईष्टे लोपस्त- आत्मनेपदेष्विति तलोपः अधीगर्थेति कर्मणि शेषत्वेन विवक्षिते षष्ठी अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः यद्वृत्तान्नित्य- मिति निघातप्रतिषेधः सपर्जन्यः त्रिधातु त्रिभूमिकं शरणं गृहं शर्म सुखं च यंसत् यच्छतु अस्मभ्यं ददात्वित्यर्थः । यमेर्लेट्यडागमः सिब्बहुलमिति सिप् इतश्चलोपइतीकारलोपः तथा त्रिवर्तु त्रिष्वृतुषु अतिशयेन वर्तमानं श्रूयतेहि-त्रीणिवा आदित्यस्य तेजांसि वसन्ताप्रातर्ग्रीष्मे मध्यन्दिने शरद्यपराह्णइति । एवंविधं स्वभिष्टि स्वभ्येषणं ज्योतिस्तेजश्च अस्मे अस्मभ्यं प्रयच्छतु ॥ २ ॥

7.101.3
स्त॒रीरु᳚ त्व॒द्भव᳚ति॒ सूत᳚ उ त्वद्यथाव॒शं त॒न्वं᳚ चक्र ए॒षः ।
पि॒तुः पय॒ः प्रति᳚ गृभ्णाति मा॒ता तेन᳚ पि॒ता व᳚र्धते॒ तेन᳚ पु॒त्रः ॥
▶ पदपाठः (Word-by-word)
स्त॒रीः । ऊं॒ इति᳚ । त्व॒त् । भव᳚ति । सूतः᳚ । ऊं॒ इति᳚ । त्व॒त् । य॒था॒॑व॒शम् । त॒न्व᳚म् । च॒क्रे॒ । ए॒षः ।
पि॒तुः । पयः᳚ । प्रति᳚ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन᳚ । पि॒ता । व॒र्ध॒ते॒ । तेन᳚ । पु॒त्रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वदिति तकारान्तोन्यशब्दपर्यायोनुदात्तः सर्वनामसुपठितः अस्य पर्जन्यस्य त्वत् अन्यद्रूपं स्तरीः निवृत्तप्रसवागौः सा यथा नदोग्ध्री तद्वद्वर्षुकं न भवति उइति पूरकः द्वितीयउशब्दश्चार्थे त्वत् अन्यच्चरूपम् सूते धेनुवत्प्रसूते उदकानि प्रवर्षति एष पर्जन्यः तन्वं स्वकीयं शरीरं यथावशं यथाकामं स्तरीत्वेन धेनुत्वेन च चक्रे करोति अपिच पितुर्दिवःसकाशात् पयः वृष्ट्युदकं माता पृथिवी प्रतिगृभ्णाति प्रतिगृह्णाति हृग्रहोर्भइति भत्वम् प्रतिगृहीतेन तेन हविरात्मना परिणतेन पिता द्युलोकोवर्धते तेनैवोदकेन पुत्रः पृथिव्यां भवः प्राणिसंघोपि वर्धते ॥ ३ ॥

7.101.4
यस्मि॒न्विश्वा᳚नि॒ भुव᳚नानि त॒स्थुस्ति॒स्रो द्याव᳚स्त्रे॒धा स॒स्रुरापः᳚ ।
त्रय॒ः कोशा᳚स उप॒सेच᳚नासो॒ मध्व᳚ः श्चोतन्त्य॒भितो᳚ विर॒प्शम् ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । विश्वा᳚नि । भुव᳚नानि । त॒स्थुः । ति॒स्रः । द्यावः᳚ । त्रे॒धा । स॒सुः । आपः᳚ ।
त्रयः᳚ । कोशा᳚सः । उ॒प॒॑सेच᳚नासः । मध्वः᳚ । श्चो॒त॒न्ति॒ । अ॒भितः᳚ । वि॒॑र॒प्शम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्पर्जन्ये विश्वानि भुवानि सर्वाणि भूतजातानि त्स्थुस्तिष्ठंति यदधीनवृत्तीनि भवन्तीत्यर्थः । यस्मिंश्च द्यावोद्युप्रभृतयोलोका अवतिष्ठन्ते यस्माच्च आपस्रेधा सस्रुः प्राच्यः प्रतीच्योवाच्यश्च सत्यो निर्गच्छन्ति उपसेचनासः त्रयः पौरस्त्यः प्रतीच्यउदीच्यश्चेति त्रिप्रकाराः कोशासोमेघाः विरप्शं महान्तं पर्जन्यमभितः परितः मध्वः कर्मणिषष्ठी मधु उदकं श्चोतन्ति क्षारयन्ति वर्षन्ति ॥ ४ ॥

7.101.5
इ॒दं वचः᳚ प॒र्जन्या᳚य स्व॒राजे᳚ हृ॒दो अ॒स्त्वन्त᳚रं॒ तज्जु᳚जोषत् ।
म॒यो॒भुवो᳚ वृ॒ष्टयः᳚ सन्त्व॒स्मे सु᳚पिप्प॒ला ओष᳚धीर्दे॒वगो᳚पाः ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । वचः᳚ । प॒र्जन्या᳚य । स्व॒॑राजे᳚ । हृ॒दः । अ॒स्तु॒ । अन्त᳚रम् । तत् । जु॒जो॒ष॒त् ।
म॒यः॒॑भुवः᳚ । वृ॒ष्टयः᳚ । स॒न्तु॒ । अ॒स्मे इति᳚ । सु॒॑पि॒प्प॒लाः । ओष᳚धीः । दे॒व॑गो᳚पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं वचोवचनं स्तोत्रं स्वराजे स्वायत्तदीप्तये पर्जन्याय क्रियते एतच्च हृदस्तदीयस्य हृदयस्य अन्तरं अन्तर्गतमस्तु सचतत्स्तोत्रं जुजोषत् सेवताम् जुषी प्रीतिसेवनयोः लेट्यडागमः छन्दसः शपःश्लुः । मयोभुवः सुख्स्य भावयित्र्यो वृष्टयः अस्मे अस्माकं तत्प्रसादात् सन्तु भवन्तु तथा देवगोपाः देवः पर्जन्यो गोपायिता रक्षिता यासां तथाविधाओषधीरोषधयश्च सुपिप्पलाः सुफलाअस्माकं भवन्तु ॥ ५ ॥

7.101.6
स रे᳚तो॒धा वृ᳚ष॒भः शश्व᳚तीनां॒ तस्मि᳚न्ना॒त्मा जग᳚तस्त॒स्थुष᳚श्च ।
तन्म᳚ ऋ॒तं पा᳚तु श॒तशा᳚रदाय यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
सः । रे॒तः॒॑धाः । वृ॒ष॒भः । शश्व᳚तीनाम् । तस्मि᳚न् । आ॒त्मा । जग᳚तः । त॒स्थुषः᳚ । च॒ ।
तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒त॑शा᳚रदाय । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सपर्जन्यः शश्वतीनां बह्वीनामोषधीनां रेतोधाः रेतसउदकस्य बीजभूतस्य धाता विनिधाता भवति वृषभइत्युपमा यथा कश्चिद्वृषभः बह्वीनां गवां गर्भस्याधाता भवति तद्वत् अतस्तस्मिन् पर्जन्ये जगतो जङ्गमस्य तस्थुषः स्थावरस्य च आत्मा देहो वर्तते तत्पर्जन्येन दत्तं ऋतमुदकं मा मां शतशारदाय शतसंवत्सरजीवनार्थं पातु रक्षतु माशब्दस्य ऋत्यकइति प्रकृतिभावो ह्रस्वत्वञ्च । अन्यद्गतम् ॥ ६ ॥

पर्जन्यायेति तृचं चतुर्दशं सूक्तं गायत्रम् पूर्ववदृषिदेवते तथाचानुक्रान्तम्-पर्जन्यायतृचं गायत्रमिति वैश्वानरपार्जन्यायामन्वारंभणी- यायां पार्जन्यस्य चरोः पर्जन्यायेत्यनुवाक्या सूत्र्यतेहि-पर्जन्यायप्रगायत प्रवातावान्तिपतयन्तिविद्युतइति ।