श्रवणम्

7.101.2
यो वर्ध᳚न॒ ओष᳚धीनां॒ यो अ॒पां यो विश्व᳚स्य॒ जग᳚तो दे॒व ईशे᳚ ।
स त्रि॒धातु᳚ शर॒णं शर्म᳚ यंसत्त्रि॒वर्तु॒ ज्योति᳚ः स्वभि॒ष्ट्य१॒᳚स्मे ॥
▶ पदपाठः (Word-by-word)
यः । वर्ध᳚नः । ओष᳚धीनाम् । यः । अ॒पाम् । यः । विश्व᳚स्य । जग᳚तः । दे॒वः । ईशे᳚ ।
सः । त्रि॒॑धातु᳚ । श॒र॒णम् । शर्म᳚ । यं॒स॒त् । त्रि॒॑वर्तु᳚ । ज्योतिः᳚ । सु॒॑अ॒भि॒ष्टि । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पर्जन्य ओषधीनां वर्धनो वर्धयिता यश्च अपामुदकानां वर्धकः यश्च देवोद्योतमानः पर्जन्यो विश्वस्य सर्वस्य जगतः ईशे ईष्टे लोपस्त- आत्मनेपदेष्विति तलोपः अधीगर्थेति कर्मणि शेषत्वेन विवक्षिते षष्ठी अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः यद्वृत्तान्नित्य- मिति निघातप्रतिषेधः सपर्जन्यः त्रिधातु त्रिभूमिकं शरणं गृहं शर्म सुखं च यंसत् यच्छतु अस्मभ्यं ददात्वित्यर्थः । यमेर्लेट्यडागमः सिब्बहुलमिति सिप् इतश्चलोपइतीकारलोपः तथा त्रिवर्तु त्रिष्वृतुषु अतिशयेन वर्तमानं श्रूयतेहि-त्रीणिवा आदित्यस्य तेजांसि वसन्ताप्रातर्ग्रीष्मे मध्यन्दिने शरद्यपराह्णइति । एवंविधं स्वभिष्टि स्वभ्येषणं ज्योतिस्तेजश्च अस्मे अस्मभ्यं प्रयच्छतु ॥ २ ॥