श्रवणम्

7.101.3
स्त॒रीरु᳚ त्व॒द्भव᳚ति॒ सूत᳚ उ त्वद्यथाव॒शं त॒न्वं᳚ चक्र ए॒षः ।
पि॒तुः पय॒ः प्रति᳚ गृभ्णाति मा॒ता तेन᳚ पि॒ता व᳚र्धते॒ तेन᳚ पु॒त्रः ॥
▶ पदपाठः (Word-by-word)
स्त॒रीः । ऊं॒ इति᳚ । त्व॒त् । भव᳚ति । सूतः᳚ । ऊं॒ इति᳚ । त्व॒त् । य॒था॒॑व॒शम् । त॒न्व᳚म् । च॒क्रे॒ । ए॒षः ।
पि॒तुः । पयः᳚ । प्रति᳚ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन᳚ । पि॒ता । व॒र्ध॒ते॒ । तेन᳚ । पु॒त्रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वदिति तकारान्तोन्यशब्दपर्यायोनुदात्तः सर्वनामसुपठितः अस्य पर्जन्यस्य त्वत् अन्यद्रूपं स्तरीः निवृत्तप्रसवागौः सा यथा नदोग्ध्री तद्वद्वर्षुकं न भवति उइति पूरकः द्वितीयउशब्दश्चार्थे त्वत् अन्यच्चरूपम् सूते धेनुवत्प्रसूते उदकानि प्रवर्षति एष पर्जन्यः तन्वं स्वकीयं शरीरं यथावशं यथाकामं स्तरीत्वेन धेनुत्वेन च चक्रे करोति अपिच पितुर्दिवःसकाशात् पयः वृष्ट्युदकं माता पृथिवी प्रतिगृभ्णाति प्रतिगृह्णाति हृग्रहोर्भइति भत्वम् प्रतिगृहीतेन तेन हविरात्मना परिणतेन पिता द्युलोकोवर्धते तेनैवोदकेन पुत्रः पृथिव्यां भवः प्राणिसंघोपि वर्धते ॥ ३ ॥