सप्तमं मण्डलम् - सूक्तम् 81

6 ऋचः

ऋषिः: वसिष्ठः देवता: उषाः छन्दः: बृहती

सूक्तम् 7.81 - सम्पूर्णम्

1 / 6
ऋक्: 7.81.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.81.1
प्रत्यु᳚ अदर्श्याय॒त्यु१॒᳚च्छन्ती᳚ दुहि॒ता दि॒वः ।
अपो॒ महि᳚ व्ययति॒ चक्ष᳚से॒ तमो॒ ज्योति᳚ष्कृणोति सू॒नरी᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । ऊं॒ इति᳚ । अ॒द॒र्शि॒ । आ॒॑य॒ती । उ॒च्छन्ती᳚ । दु॒हि॒ता । दि॒वः ।
अपो॒ इति᳚ । महि᳚ । व्य॒य॒ति॒ । चक्ष᳚से । तमः᳚ । ज्योतिः᳚ । कृ॒णो॒ति॒ । सू॒नरी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ षष्ठोध्यायोव्याख्यायते । सप्तमे मण्डले पञ्चमेनुवाके दशसूक्तानि व्याकृतानि प्रत्युअदर्शीति षळृचमेकादशं सूक्तम् वसिष्ठस्यार्ष- मुषस्यम् प्रथमाद्या अयुजोबृहत्यः द्वितीयाद्यायुजः सतोबृहत्यः तथाचानुक्रान्तं-प्रत्युषट्प्रागाथमिति । प्रातरनुवाके उषस्येक्रतौ बार्ह- तेछन्दसि आश्विनशस्त्रेच इदंसूक्तं सूत्रितञ्च-प्रत्युअदर्शिसहवामेनेति बार्हतमिति ।

आयती आगच्छन्ती व्युच्छन्ती तमांसि विवासयन्ती वर्जयन्ती दिवः द्युलोकस्य सूर्यस्यवा दुहिता पुत्री एवंभूताउषाःप्रत्यदर्शि सर्वैः प्रतिदृश्यते उइतिपूरकः सोषा महि महत् तमोनैशमन्धकारं अप उ इति निपातद्वयसमुदायः अपेत्यस्यार्थे अपोव्ययति अपवृणोति । किमर्थं चक्षसे दर्शनार्थं एवं कृत्वा सूनरी जनानांसुष्ठु नेत्री उषा ज्योतिः प्रकाशं कृणोति करोति ॥ १ ॥

7.81.2
उदु॒स्रिया᳚ः सृजते॒ सूर्य॒ः सचा{4}᳚ उ॒द्यन्नक्ष᳚त्रमर्चि॒वत् ।
तवेदु᳚षो॒ व्युषि॒ सूर्य᳚स्य च॒ सं भ॒क्तेन᳚ गमेमहि ॥
▶ पदपाठः (Word-by-word)
उत् । उ॒स्रियाः᳚ । सृ॒ज॒ते॒ । सूर्यः᳚ । सचा᳚ । उ॒त्॑यत् । नक्ष᳚त्रम् । अ॒र्चि॒॑वत् ।
तव᳚ । इत् । उ॒षः॒ । वि॒॑उषि᳚ । सूर्य᳚स्य । च॒ । सम् । भ॒क्तेन᳚ । ग॒मे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यः सर्वस्य प्रेरकआदित्यः उस्रियाः रश्मीन् सचा सह युगपदेव उत्सृजते उद्गमयति तथा उद्यत् उद्गच्छत् प्रादुर्भवन्नक्षत्रं नभसि दृश्यमानं ग्रहनक्षत्रादिकं अर्चिवत् दीप्तिमत्करोति सौरेण तेजसाहि नक्तं चन्द्रप्रभृतीनि नक्षत्राणि भासन्ते । सुषुम्नः सूर्यरश्मिश्चन्द्रमा- गन्धर्वइतिहिनिगमः । एवञ्च सति हे उषः उषोदेवते तव सूर्यस्यच व्युषि विवासने प्रकाशते सति भक्तेनान्नेन सङ्गमेमहि वयं सगच्छेमहि इच्छब्दः पूरकः ॥ २ ॥

7.81.3
प्रति᳚ त्वा दुहितर्दिव॒ उषो᳚ जी॒रा अ᳚भुत्स्महि ।
या वह᳚सि पु॒रु स्पा॒र्हं व᳚नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । त्वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । उषः᳚ । जी॒राः । अ॒भु॒त्स्म॒हि॒ ।
या । वह᳚सि । पु॒रु । स्पा॒र्हम् । व॒न॒न्॑व॒ति॒ । रत्न᳚म् । न । दा॒शुषे᳚ । मयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दिवोदुहितः दिवोन्तरिक्षाज्जायमाने हेउषः उषोदेवते त्वा त्वां जीराः क्षिप्रकारिणोवयं प्रत्यभुत्स्महि प्रतिबोद्धारोभवेम हे वनन्वति वननं संभजनं संभक्तव्यं धनं वा तद्वति या त्वं पुरु बहु स्पार्हं स्पृहणीयं धनं वहसि प्रापयसि दशुषे हवींषि दत्तवते यजमानाय रत्नं न रमणीयं धनमिव मयः सुखंच या त्वं वहसि तां त्वां प्रत्यभुत्स्महीत्यन्वयः ॥ ३ ॥

7.81.4 समानपद
उ॒च्छन्ती॒ या कृ॒णोषि᳚ मं॒हना᳚ महि प्र॒ख्यै दे᳚वि॒ स्व᳚र्दृ॒शे ।
तस्या᳚स्ते रत्न॒भाज᳚ ईमहे व॒यं स्याम᳚ मा॒तुर्न सू॒नवः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒च्छन्ती᳚ । या । कृ॒णोषि᳚ । मं॒हना᳚ । म॒हि॒ । प्र॒॑ख्यै । दे॒वि॒ । स्वः᳚ । दृ॒शे ।
तस्याः᳚ । ते॒ । र॒त्न॒॑भाजः᳚ । ई॒म॒हे॒ । व॒यम् । स्याम᳚ । मा॒तुः । न । सू॒नवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महि महति देवि दानादिगुणयुक्ते उषोदेवते व्युच्छन्ती तमांसि वर्जयन्ती मंहना महिम्नायुक्ता यद्वा मंहतिर्दानकर्मा दानयुक्ता या त्वं स्वः सर्वंजगत् प्रख्यै प्रबोधनार्थं दृशे दर्शनार्थञ्च कृणोषि करोषि । तस्यास्तादृश्याः सत्नभाजः रत्नानां रमणीयानां धनानां भाजयित्र्याः सेवयित्र्याः ईमहे याचामहे किं रत्नभाजइति समभिव्याहारात् रत्नानीति गम्यते । अपिच वयंते तव प्रियतमाः स्याम भवेम मातुर्न सूनवः यथा मातुर्जनन्याः सूनवः पुत्राः प्रियतमाभवन्ति तद्वत् ॥ ४ ॥

7.81.5 समानपद
तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी᳚र्घ॒श्रुत्त᳚मम् ।
यत्ते᳚ दिवो दुहितर्मर्त॒भोज᳚नं॒ तद्रा᳚स्व भु॒नजा᳚महै ॥
▶ पदपाठः (Word-by-word)
तत् । चि॒त्रम् । राधः᳚ । आ । भ॒र॒ । उषः᳚ । यत् । दी॒र्घ॒श्रुत्॑त᳚मम् ।
यत् । ते॒ । दि॒वः॒ । दु॒हि॒तः॒ । म॒र्त॒॑भोज᳚नम् । तत् । रा॒स्व॒ । भु॒नजा᳚महै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषाः तच्चित्रं चायनीयं राधोधनं आभराहर अस्मभ्यं प्रयच्छ । यद्धनं दीर्घ श्रुत्तमं देशकालयोर्विप्रकर्षेप्यतिशयेन श्रोतव्यम् अपिच हे दिवोदुहितः ते तव त्वया देयं मर्तभोजनं मर्तानां मनुष्याणां भोगयोग्यं यदन्नमप्यस्ति तद्रास्व देह्यस्मभ्यम् वयञ्च त्वद्दत्तं धनमन्नञ्च भुनजामहै अभ्यवहरेम ॥ ५ ॥

7.81.6 समानपद
श्रवः᳚ सू॒रिभ्यो᳚ अ॒मृतं᳚ वसुत्व॒नं वाजा{4}᳚ अ॒स्मभ्यं॒ गोम᳚तः ।
चो॒द॒यि॒त्री म॒घोनः᳚ सू॒नृता᳚वत्यु॒षा उ᳚च्छ॒दप॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
श्रवः᳚ । सू॒रि॑भ्यः᳚ । अ॒मृत᳚म् । व॒सु॒॑त्व॒नम् । वाजा᳚न् । अ॒स्मभ्य᳚म् । गो॑म᳚तः ।
चो॒द॒यि॒त्री । म॒घोनः᳚ । सू॒नृता᳚॑वती । उ॒षाः । उ॒च्छ॒त् । अप᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः सूरिभ्यः स्तोतृभ्योस्मभ्यं अमृतं मरणरहितं नित्यं वसुत्वनं वासकं वसुत्वयुक्तं वा श्रवः श्रवणीयं यशः रास्वेत्यनुषङ्ग तथा गोमतः बहुभिर्गोभिर्युक्तान् वाजान् अन्नानि चास्मभ्यं रास्व । शिष्टः परोक्षकृतः मद्योनोहविष्मतोयजमानस्य चोदयित्री प्रेरयित्री प्रेरयित्री सूनृतावती प्रियसत्यात्मिका वाक सूनृता तद्वती उषाः स्निधः शोषकान् शत्रून् अपोच्छत् अपगमयतु ॥ ६ ॥

इन्द्रावरुणेति दशर्चं द्वादशं सूक्तं वसिष्ठस्यार्षं जागतम् इदमादीनि चत्वारिसूक्तानीन्द्रावरुणदेवतानि तथाचानुक्रान्तम्-इन्द्रा- वरुणादशैन्द्रावरुणाह जागतंत्विति । तृतीयेसवने उक्थ्ये प्रशास्तुः शस्त्रे एतत्सूक्तम् सूत्रितमं-इन्द्रावरुणायुवमावांराजानाविति ।