सप्तमं मण्डलम् - सूक्तम् 19

11 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.19 - सम्पूर्णम्

1 / 11
ऋक्: 7.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
7.19.1
यस्ति॒ग्मशृ᳚ङ्गो वृष॒भो न भी॒म एकः᳚ कृ॒ष्टीश्च्या॒वय᳚ति॒ प्र विश्वा᳚ः ।
यः शश्व᳚तो॒ अदा᳚शुषो॒ गय᳚स्य प्रय॒न्तासि॒ सुष्वि᳚तराय॒ वेदः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ति॒ग्म॑शृ᳚ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः᳚ । कृ॒ष्टीः । च्य॒वय᳚ति । प्र । विश्वाः᳚ ।
यः । शश्व᳚तः । अदा᳚शुषः । गय᳚स्य । प्र॒॑य॒न्ता । अ॒सि॒ । सु॒स्वि᳚॑तराय । वेदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रस्तिग्मशृंगः तीक्ष्णशृंगो वृषभोन वृषभइव भीमो भयंकरःसन् एकोसहायएव विश्वाः सर्वान् कृष्टीः शत्रुजनान् स्थानात् प्रच्यावयति यश्चेन्द्रः अदाशुषोऽयजमानस्य शश्वतो बहोर्गयस्य गृहस्य धनस्य वापहर्ता भवतीतिशेषः । हे इन्द्र सत्वं सुस्वितराय अतिशयेन सोमा- भिषवं कुर्वते जनाय वेदो धनं प्रयन्ता प्रदातासि । तृन्नन्तत्वादव षष्ठ्याभावः असीत्यस्याख्यातस्यानुदात्तत्वात् यद्वृत्तयोगाच्चानुदात्त- त्वासंभवात् यद्वृत्तयुक्तमाख्यातांतरमध्याहृत्य योजना कृता ॥ १ ॥

7.19.2
त्वं ह॒ त्यदि᳚न्द्र॒ कुत्स᳚माव॒ः शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये ।
दासं॒ यच्छुष्णं॒ कुय᳚वं॒ न्य᳚स्मा॒ अर᳚न्धय आर्जुने॒याय॒ शिक्ष᳚न् ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स᳚म् । आ॒वः॒ । शुश्रू᳚षमाणः । त॒न्वा᳚ । स॒॑म॒र्ये ।
दास᳚म् । यत् । शुष्ण᳚म् । कुय᳚वम् । नि । अ॒स्मै॒ । अर᳚न्धयः । आ॒र्जु॒ने॒याय᳚ । शिक्ष᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं ह त्वं खलु त्यत् तदा तन्वा शरीरेण शुश्रूषमाणः उपचरन् समर्ये मर्यैर्मर्त्यैः योद्धृभिः सहिते युद्धे कुत्समावः अरक्षः कदेत्यत्रा- ह यद्यदा आर्जुनेयाय अर्जुन्याः पुत्रायास्मै कुत्साय शिक्षन् धनं प्रयच्छन् दासं दासनामकमसुरं शुष्णं च कुयवं च न्यरन्धयः नितरां वशमानयः ॥ २ ॥

7.19.3
त्वं धृ᳚ष्णो धृष॒ता वी॒तह᳚व्यं॒ प्रावो॒ विश्वा᳚भिरू॒तिभि᳚ः सु॒दास᳚म् ।
प्र पौरु᳚कुत्सिं त्र॒सद᳚स्युमाव॒ः क्षेत्र᳚साता वृत्र॒हत्ये᳚षु पू॒रुम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । धृ॒ष्णो॒ इति᳚ । धृ॒ष॒ता । वी॒त॑ह᳚व्यम् । प्र । आ॒वः॒ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ । सु॒॑दास᳚म् ।
प्र । पौरु᳚॑कुत्सिम् । त्र॒सद᳚स्युम् । आ॒वः॒ । क्षेत्र᳚॑साता । वृ॒त्र॒॑हत्ये᳚षु । पू॒रुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धृष्णो शत्रूणांधर्षकेन्द्र धृषता धर्षकेण वज्रेण बलेन वा वीतहव्यं दत्तहविष्कं प्रजनितहविष्कंवा सुदासंराजानं विश्वाभिः सर्वाभिः ऊ- तिभीरक्षाभिः प्रावः प्रकर्षेणारक्षः किंच वृत्रहत्येषु युद्धेषु क्षेत्रसातौ क्षेत्रस्य भूमेर्भजने निमित्ते पौरुकुत्सिं पुरुकुत्सस्यापत्यं वसदस्युं पूरुं च प्रावः ॥ ३ ॥

7.19.4
त्वं नृभि᳚र्नृमणो दे॒ववी᳚तौ॒ भूरी᳚णि वृ॒त्रा ह᳚र्यश्व हंसि ।
त्वं नि दस्युं॒ चुमु᳚रिं॒ धुनिं॒ चास्वा᳚पयो द॒भीत᳚ये सु॒हन्तु᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । नृ॑भिः᳚ । नृ॒॑म॒नः॒ । दे॒व॑वी᳚तौ । भूरी᳚णि । वृ॒त्रा । ह॒रि॒॑अ॒श्व॒ । हं॒सि॒ ।
त्वम् । नि । दस्यु᳚म् । चुमु᳚रिम् । धुनि᳚म् । च॒ । अस्वा᳚पयः । द॒भीत᳚ये । सु॒॑हन्तु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृमणः नृभिर्यज्ञानां नेतृभिः स्तोतृभिः मननीय स्तोतव्येन्द्र नृषु मनोयस्येति बहुव्रीहिर्वा देववीतौ यज्ञे क्रियमाणे सति संग्रामेवा देवा विजिगीषवो यस्मिन् वियन्ति गच्छन्तीति संग्रामोदेववीतिः नृभिर्मरुद्भिः सह भूरीणि बहूनि वृत्रा वृत्राणि शत्रून् हंसि मारितवानसि । किं च हे हर्यश्वेन्द्र त्वं दभीतये दभीतिनामकाय राजर्षये तदर्थमित्यर्थः दस्युं मुमुरिं च धुनिं च सुहन्तु सुहन्तुना वज्रेण नि नितरां अस्वापयः मारितवानसीत्यर्थः ॥ ४ ॥

7.19.5
तव᳚ च्यौ॒त्नानि᳚ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो᳚ नव॒तिं च᳚ स॒द्यः ।
नि॒वेश᳚ने शतत॒मावि᳚वेषी॒रह᳚ञ्च वृ॒त्रं नमु᳚चिमु॒ताह᳚न् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । च्यौ॒त्नानि᳚ । व॒ज्र॒॑ह॒स्त॒ । तानि᳚ । नव᳚ । यत् । पुरः᳚ । न॒व॒तिम् । च॒ । स॒द्यः ।
नि॒॑वेश᳚ने । श॒त॒॑त॒मा । अ॒वि॒वे॒षीः॒ । अह᳚न् । च॒ । वृ॒त्रम् । नमु᳚चिम् । उ॒त । अ॒ह॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रहस्त तव च्यौत्नानि बलानि तानि तादृशानि यद्यदा त्वं शंबरस्य नव नवतिंच पुरः सद्योयुगपदेव विदारितवानसीतिशेषः तदा निवेशने निवेशनार्थं शततमा शततमीं पुरं अविवेषीः व्याप्नोः वृत्रं चाहन् उतापिच नमुचिमहन् ॥ ५ ॥

7.19.6
सना॒ ता त᳚ इन्द्र॒ भोज᳚नानि रा॒तह᳚व्याय दा॒शुषे᳚ सु॒दासे᳚ ।
वृष्णे᳚ ते॒ हरी॒ वृष᳚णा युनज्मि॒ व्यन्तु॒ ब्रह्मा᳚णि पुरुशाक॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
सना᳚ । ता । ते॒ । इ॒न्द्र॒ । भोज᳚नानि । रा॒त॑ह᳚व्याय । दा॒शुषे᳚ । सु॒॑दासे᳚ ।
वृष्णे᳚ । ते॒ । हरी॒ इति᳚ । वृष᳚णा । यु॒न॒ज्मि॒ । व्यन्तु᳚ । ब्रह्मा᳚णि । पु॒रु॒॑शा॒क॒ । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव रातहव्याय दाशुषे यजमानाय सुदासे ता तानि त्वया दत्तानि भोजनानि भोग्यानि धनानि सना सनानि सनातनानि बभूवुरितिशेषः । हे पुरुशाक बहुकर्मन्निन्द्र बृष्णे कामानां वर्षित्रे ते तुभ्यं त्वामानेतुमित्यर्थः । वृषणा वृषणौ हरी अश्वौ युनज्मि रथे योजयामि । ब्रह्माण्यस्मदीयानि स्तोत्राणि वाजं बलिनं त्वां व्यन्तु गच्छन्तु ॥ ६ ॥

7.19.7
मा ते᳚ अ॒स्यां स᳚हसाव॒न्परि᳚ष्टाव॒घाय᳚ भूम हरिवः परा॒दै ।
त्राय᳚स्व नो॑वृ॒केभि॒र्वरू᳚थै॒स्तव᳚ प्रि॒यासः᳚ सू॒रिषु᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒॑व॒न् । परि᳚ष्टौ । अ॒घाय᳚ । भू॒म॒ । ह॒रि॒॑वः॒ । प॒रा॒॑दै ।
त्राय᳚स्व । नः॒ । अ॒वृ॒केभिः᳚ । वरू᳚थैः । तव᳚ । प्रि॒यासः᳚ । सू॒रिषु᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसावन् बलवन् हरिवो हरिवन्निन्द्र ते तव अस्यां स्तोत्रेणास्माभिः क्रियमाणायां परिष्टावन्वेषणायां परादै परादानाय अघाय अहन्त्रे वयं माभूम । किं च नोस्मान् अवृकेभिः अबाधैर्वरूथैः वारयन्त्युपद्रवेभ्यः इति वरूथानि रक्षणानि तैस्त्रायस्व पाहि । तव सुरिषु स्तोतृषु मध्ये वयं प्रियासः प्रियाः स्याम भूयास्म ॥ ७ ॥

7.19.8
प्रि॒यास॒ इत्ते᳚ मघवन्न॒भिष्टौ॒ नरो᳚ मदेम शर॒णे सखा᳚यः ।
नि तु॒र्वशं॒ नि याद्वं᳚ शिशीह्यतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ॥
▶ पदपाठः (Word-by-word)
प्रि॒यासः᳚ । इत् । ते॒ । म॒घ॒॑व॒न् । अ॒भिष्टौ᳚ । नरः᳚ । म॒दे॒म॒ । श॒र॒णे । सखा᳚यः ।
नि । तु॒र्वश᳚म् । नि । याद्व᳚म् । शि॒शी॒हि॒ । अ॒ति॒थि॒॑ग्वाय᳚ । शंस्य᳚म् । क॒रि॒ष्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निन्द्र ते तवाभिष्टावभ्येषणे नरःस्तोत्राणां नेतारो वयं सखायः समानख्यातयः प्रियासः प्रियाश्च सन्तः शरणे इत् गृहे एव मदेम मोदेम । किं च अतिथिग्वाय पूजयातिथीन् गच्छतीत्यतिथिग्वः तस्मै सुदासे दिवोदासाय वास्मदीयाय राज्ञे शंस्यं शंसनीयं सुखं करिष्यन् कुर्वन् तुर्वशं राजानं निशिशीहि वशं कुरु याद्वं च राजानं नि शिशीहीत्यर्थः ॥ ८ ॥

7.19.9 समानपद
स॒द्यश्चि॒न्नु ते म᳚घवन्न॒भिष्टौ॒ नरः᳚ शंसन्त्युक्थ॒शास᳚ उ॒क्था ।
ये ते॒ हवे᳚भि॒र्वि प॒णी{4}रदा᳚शन्न॒स्मान्वृ᳚णीष्व॒ युज्या᳚य॒ तस्मै᳚ ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒॑व॒न् । अ॒भिष्टौ᳚ । नरः᳚ । शं॒स॒न्ति॒ । उ॒क्थ॒॑शासः᳚ । उ॒क्था ।
ये । ते॒ । हवे᳚भिः । वि । प॒णीन् । अदा᳚शन् । अ॒स्मान् । वृ॒णी॒ष्व॒ । युज्या᳚य । तस्मै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् धनवन्निन्द्र ते तव नु अद्य अभिष्टावभ्येषणे ये नरः उक्थशासः उक्थानां शंसितारः उक्था उक्थानि शस्त्राणि सद्यश्चित् सद्यएव शंसन्ति किं च ते तव हवेभिः स्तोत्रैः पणीन् अप्रदानशीलान वणिजोपि व्यदाशन् धनानि विशेषेणादापयन्निन्त्यर्थः । तानस्मान् तस्मै युज्याय सख्याय तत्सख्यमनुवर्तयितुं वृणीष्वापरिगृहाण ॥ ९ ॥

7.19.10
ए॒ते स्तोमा᳚ न॒रां नृ᳚तम॒ तुभ्य᳚मस्म॒द्र्य᳚ञ्चो॒ दद᳚तो म॒घानि᳚ ।
तेषा᳚मिन्द्र वृत्र॒हत्ये᳚ शि॒वो भू॒ः सखा᳚ च॒ शूरो᳚॑वि॒ता च᳚ नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
ए॒ते । स्तोमाः᳚ । न॒राम् । नृ॒॑त॒म॒ । तुभ्य᳚म् । अ॒स्म॒द्र्य᳚ञ्चः । दद᳚तः । म॒घानि᳚ ।
तेषा᳚म् । इ॒न्द्र॒ । वृ॒त्र॒॑हत्ये᳚ । शि॒वः । भूः॒ । सखा᳚ । च॒ । शूरः᳚ । अ॒वि॒ता । च॒ । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृतम नेतृतमेन्द्र तुभ्यं नरां नेतॄणां यएते स्तोमाः संघाः मघानि मंहनीयानि हवींषि ददतो ददन्तः अस्मद्भंचोस्मदभिमुखाः अभूवन्नि- तिशेषः । तेषां नॄणां वृत्रहत्ये संग्रामे शिवः कल्याणकृत् भूः भव । सखाच भूः । शूरः वीरःसन् अविता रक्षिता च भूः ॥ १० ॥

7.19.11
नू इ᳚न्द्र शूर॒ स्तव᳚मान ऊ॒ती ब्रह्म᳚जूतस्त॒न्वा᳚ वावृधस्व ।
उप᳚ नो॒ वाजा᳚न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । इ॒न्द्र॒ । शू॒र॒ । स्तव᳚मानः । ऊ॒ती । ब्रह्म᳚॑जूतः । त॒न्वा᳚ । व॒वृ॒ध॒स्व॒ ।
उप᳚ । नः॒ । वाजा᳚न् । मि॒मी॒हि॒ । उप᳚ । स्तीन् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूरेन्द्र नु अद्य स्तवमानः स्तूयमानः ब्रह्मजूतो ब्रह्मणा स्तोत्रेण प्रेरितः तन्वा शरीरेण ववृधस्व अपि च नोस्मभ्यं वाजानन्नान् उपमि- मीहि प्रयच्छेत्यर्थः । स्तीन् गृहांश्चोपमिमीहि । स्पष्टमन्यत् ॥ ११ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थ- प्रकाशेऋक्संहिताभाष्ये पञ्चमाष्टके द्वितीयोध्यायः समाप्तः ॥ २ ॥