श्रवणम्

7.19.4
त्वं नृभि᳚र्नृमणो दे॒ववी᳚तौ॒ भूरी᳚णि वृ॒त्रा ह᳚र्यश्व हंसि ।
त्वं नि दस्युं॒ चुमु᳚रिं॒ धुनिं॒ चास्वा᳚पयो द॒भीत᳚ये सु॒हन्तु᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । नृ॑भिः᳚ । नृ॒॑म॒नः॒ । दे॒व॑वी᳚तौ । भूरी᳚णि । वृ॒त्रा । ह॒रि॒॑अ॒श्व॒ । हं॒सि॒ ।
त्वम् । नि । दस्यु᳚म् । चुमु᳚रिम् । धुनि᳚म् । च॒ । अस्वा᳚पयः । द॒भीत᳚ये । सु॒॑हन्तु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृमणः नृभिर्यज्ञानां नेतृभिः स्तोतृभिः मननीय स्तोतव्येन्द्र नृषु मनोयस्येति बहुव्रीहिर्वा देववीतौ यज्ञे क्रियमाणे सति संग्रामेवा देवा विजिगीषवो यस्मिन् वियन्ति गच्छन्तीति संग्रामोदेववीतिः नृभिर्मरुद्भिः सह भूरीणि बहूनि वृत्रा वृत्राणि शत्रून् हंसि मारितवानसि । किं च हे हर्यश्वेन्द्र त्वं दभीतये दभीतिनामकाय राजर्षये तदर्थमित्यर्थः दस्युं मुमुरिं च धुनिं च सुहन्तु सुहन्तुना वज्रेण नि नितरां अस्वापयः मारितवानसीत्यर्थः ॥ ४ ॥