अ॒भि त्रि᳚पृ॒ष्ठैः सव᳚नेषु॒ सोमै॒र्मदे᳚ सुशिप्रा म॒हभि᳚ः पृणध्वम् ॥
पदपाठः (Word-by-word)
अ॒भि । त्रि᳚॑पृ॒ष्ठैः । सव᳚नेषु । सोमैः᳚ । मदे᳚ । सु॒॑शि॒प्राः॒ । म॒ह॑भिः᳚ । पृ॒ण॒ध्व॒म् ॥
सायणभाष्यम् (Sayana Commentary)
अनेन द्वृचेन ऋभवः स्तूयन्ते ऋभुक्षणः विस्तीर्णस्य तेजसोनिवासभूता हे वाजाः ऋभवः वाहिष्ठोवोढृतमः स्तवध्यै स्तोतुमर्ह अमृक्तः केनाप्यहिंसितः युष्मदीयोरथः वो युष्मान् आवहतु आसमन्तात् अस्मदीयं यज्ञं प्रापयतु हेसुशिप्राः शोभनहनवः यूयं तेन रथेनागत्य सव- नेष्वस्मदीययज्ञेषु मदे मदनिमित्ते त्रिपृष्ठैः क्षीरदधिसक्तुमिश्रैः महभिर्महद्भिः सोमैः अभि पृणध्वं युष्मदीयं जठरमभिपूरयत सरथः युष्मानावहत्विति पूर्वेणान्वयः ॥ १ ॥