श्रवणम्

7.37.5
सनि᳚तासि प्र॒वतो᳚ दा॒शुषे᳚ चि॒द्याभि॒र्विवे᳚षो हर्यश्व धी॒भिः ।
व॒व॒न्मा नु ते॒ युज्या᳚भिरू॒ती क॒दा न᳚ इन्द्र रा॒य आ द᳚शस्येः ॥
▶ पदपाठः (Word-by-word)
सनि᳚ता । अ॒सि॒ । प्र॒॑वतः᳚ । दा॒शुषे᳚ । चि॒त् । याभिः᳚ । विवे᳚षः । ह॒रि॒॑अ॒श्व॒ । धी॒भिः ।
व॒व॒न्म । नु । ते॒ । युज्या᳚भिः । ऊ॒ती । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हर्यश्व हरिनामकाश्वेन्द्र त्वं याभिर्धीभिः अस्मदीयाभिः स्तुतिभिः विवेषव्याप्नोषिसत्वं दाशुषेचित् हविर्दत्तवते यजमानायापि प्रवतः प्रवणस्य धनस्यसनितासि दाताभवसि अपिच हेइन्द्र त्वं नोस्मभ्यं कदा कस्मिन्काले रायो धनानि आदशस्येः प्रयच्छेः नु अद्य ते तव युज्याभिः योग्याभिः ऊती ऊतिभीरक्षाभिः ववन्म त्वां संभजेम ॥ ५ ॥