श्रवणम्

7.37.4
त्वमि᳚न्द्र॒ स्वय᳚शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त᳚मे॒ष्यृक्वा᳚ ।
व॒यं नु ते᳚ दा॒श्वांसः᳚ स्याम॒ ब्रह्म᳚ कृ॒ण्वन्तो᳚ हरिवो॒ वसि᳚ष्ठाः ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । स्व॑य᳚शाः । ऋ॒भु॒क्षाः । वाजः᳚ । न । सा॒धुः । अस्त᳚म् । ए॒षि॒ । ऋक्वा᳚ ।
व॒यम् । नु । ते॒ । दा॒श्वांसः᳚ । स्या॒म॒ । ब्रह्म᳚ । कृ॒ण्वन्तः᳚ । ह॒रि॒॑वः॒ । वसि᳚ष्ठाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स्वयशाः असाधारणकीर्तिः ऋभुक्षाः ऋभुनिवासकः ऋभूणामीश्वरोवा त्वं साधुः साधकः वाजोन अन्नमिव ऋक्वा ऋक्वणः स्तोतुः मम अस्तं गृहं एषि प्राप्नुहि नु अद्य वयं वसिष्ठाः एतत्संज्ञकाऋषयो हे हरिवः स्वकीयाश्वोपेतेन्द्र ते त्वदर्थं दाश्वांसः हविर्लक्षणान्नं दत्तवन्तः ब्रह्म स्तोत्रं कृण्वन्तः कुर्वन्तःसन्तः स्याम भवेम ॥ ४ ॥