श्रवणम्

7.37.8
आ नो॒ राधां᳚सि सवितः स्त॒वध्या॒ आ रायो᳚ यन्तु॒ पर्व᳚तस्य रा॒तौ ।
सदा᳚ नो दि॒व्यः पा॒युः सि᳚षक्तु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । राधां᳚सि । स॒वि॒त॒रिति᳚ । स्त॒वध्यै᳚ । आ । रायः᳚ । य॒न्तु॒ । पर्व᳚तस्य । रा॒तौ ।
सदा᳚ । नः॒ । दि॒व्यः । पा॒युः । सि॒स॒क्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः सर्वस्यप्रेरक देव त्वत् सकाशात् स्तवध्यै स्तोतुं योग्यानि राधांसि धनानि नोस्मान् आयन्तु आगच्छन्तु पर्वतस्य पर्वतइति कश्चिदिन्द्रस्य सखा एतत्संज्ञकस्य देवस्य रातौ दानेसति रायो धनानि अस्मानायन्तु पायुः सर्वस्य पालकोदिव्योदिविभवः सइन्द्रः सदा सर्वदा नोस्मान् सिषक्तु रक्षकत्वेनसेवतां अस्मिन् सूक्ते येग्रतिपादितादेवाः तेसर्वे यूयं नोस्मान् स्वस्तिभिः कल्याणैः सदा पात् पालयत ॥ ८ ॥

उदुष्यदेवइत्यष्टर्चं पंचमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं सवितृदेवताकं सप्तम्यष्टम्यौ वाजिदेवताके भगमुग्रोवसइत्यर्धर्चो भगदेवत्यः सा- वित्रोवा यथाचानुक्रमणिका-उदुष्यसावित्रमंत्येवाजिन्यौभगमितिभागोवार्धर्चइति । गतः सूक्तविनियोगः ।