यो दैव्या᳚नि॒ मानु᳚षा ज॒नूंष्य॒न्तर्विश्वा᳚नि वि॒द्मना॒ जिगा᳚ति ॥
पदपाठः (Word-by-word)
यः । दैव्या᳚नि । मानु᳚षा । ज॒नूंषि᳚ । अ॒न्तः । विश्वा᳚नि । वि॒द्मना᳚ । जिगा᳚ति ॥
सायणभाष्यम् (Sayana Commentary)
हे हविषां वोढारः वो यूयं शुक्राय शुभ्राय भानवे दीप्तायाग्नये सुपूतं सुशुद्धहव्यं मतिं स्तुतिं च प्रभरध्वं योग्निर्दैव्यानि मानुषा मानुषाणि च विश्वा विश्वानि जनूंषि जातानि अन्तरन्तरा विद्मना प्रज्ञानेन मार्गेण वा जिगाति गच्छति देवान् मनुष्यांश्चान्तराहवींषि नेतुं वर्त- तइत्यर्थः ॥ १ ॥