ईशे॒ ह्य१॒᳚ग्निर॒मृत᳚स्य॒ भूरे॒रीशे᳚ रा॒यः सु॒वीर्य᳚स्य॒ दातो᳚ः ।
मा त्वा᳚ व॒यं स᳚हसावन्न॒वीरा॒ माप्स᳚व॒ः परि᳚ षदाम॒ मादु᳚वः ॥
मा त्वा᳚ व॒यं स᳚हसावन्न॒वीरा॒ माप्स᳚व॒ः परि᳚ षदाम॒ मादु᳚वः ॥
पदपाठः (Word-by-word)
ईशे᳚ । हि । अ॒ग्निः । अ॒मृत᳚स्य । भूरेः᳚ । ईशे᳚ । रा॒यः । सु॒॑वीर्य᳚स्य । दातोः᳚ ।
मा । त्वा॒ । व॒यम् । स॒ह॒सा॒॑व॒न् । अ॒वीराः᳚ । मा । अप्स᳚वः । परि᳚ । स॒दा॒म॒ । मा । अदु᳚वः ॥
मा । त्वा॒ । व॒यम् । स॒ह॒सा॒॑व॒न् । अ॒वीराः᳚ । मा । अप्स᳚वः । परि᳚ । स॒दा॒म॒ । मा । अदु᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
अमृतस्य अमृतमन्नमुदकं वा द्वितीयार्थे षष्ठी भूरेरधिकं दातोर्दातुमग्निः ईशे ईष्टे हि । सुवीर्यस्य शोभनवीर्ययुक्तं रायो धनं दातुं ईशे ईष्टे । अथ प्रत्यक्षस्तुतिः सहसावान् हे बलवन्नग्ने वयं वसिष्ठाः अवीराः पुत्रादिरहिताःसन्तः मापरिषदाम मापर्युपविशाम । अप्सवो रूपरहि- ताश्चसंतो मापरिषदाम । तथा च यास्कः-अप्सइति रूपनामेति अदुवः परिचरणहीनाश्च मापरिषदाम ॥ ६ ॥