स गृत्सो᳚ अ॒ग्निस्तरु᳚णश्चिदस्तु॒ यतो॒ यवि᳚ष्ठो॒ अज᳚निष्ट मा॒तुः ।
सं यो वना᳚ यु॒वते॒ शुचि᳚द॒न्भूरि᳚ चि॒दन्ना॒ समिद᳚त्ति स॒द्यः ॥
सं यो वना᳚ यु॒वते॒ शुचि᳚द॒न्भूरि᳚ चि॒दन्ना॒ समिद᳚त्ति स॒द्यः ॥
पदपाठः (Word-by-word)
सः । गृत्सः᳚ । अ॒ग्निः । तरु᳚णः । चि॒त् । अ॒स्तु॒ । यतः᳚ । यवि᳚ष्ठः । अज᳚निष्ट । मा॒तुः ।
सम् । यः । वना᳚ । यु॒वते᳚ । शुचि᳚॑दन् । भूरि᳚ । चि॒त् । अन्ना᳚ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥
सम् । यः । वना᳚ । यु॒वते᳚ । शुचि᳚॑दन् । भूरि᳚ । चि॒त् । अन्ना᳚ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥
सायणभाष्यम् (Sayana Commentary)
सचित्सएव गृत्सो मेधावी तथा च यास्कः-गृत्स इतिमेधावि नाम अग्निस्तरुणस्तारकोभवति तदा यतोयदा मातुररण्याः यविष्ठो युवतमःसन् अजनिष्ट । योग्निः शुचिदन् दीप्तदन्तः वना वनानि संयुवते आत्मना संयोजयति । किं च भूरिचित् भूरीण्यपि अन्ना स्वीया- न्यन्नानि सद्यइत् सद्यएव समत्ति सम्यग्भक्षयति ॥ २ ॥