न॒हि ग्रभा॒यार᳚णः सु॒शेवो॒॑न्योद᳚र्यो॒ मन᳚सा॒ मन्त॒वा उ᳚ ।
अधा᳚ चि॒दोक॒ः पुन॒रित्स ए॒त्या नो᳚ वा॒ज्य᳚भी॒षाळे᳚तु॒ नव्य᳚ः ॥
अधा᳚ चि॒दोक॒ः पुन॒रित्स ए॒त्या नो᳚ वा॒ज्य᳚भी॒षाळे᳚तु॒ नव्य᳚ः ॥
पदपाठः (Word-by-word)
न॒हि । ग्रभा᳚य । अर᳚णः । सु॒॑शेवः᳚ । अ॒न्य॑उ᳚दर्यः । मन᳚सा । मन्त॒वै । ऊं॒ इति᳚ ।
अध᳚ । चि॒त् । ओकः᳚ । पुनः᳚ । इत् । सः । ए॒ति॒ । आ । नः॒ । वा॒जी । अ॒भी॒षाट् । ए॒तु॒ । नव्यः᳚ ॥
अध᳚ । चि॒त् । ओकः᳚ । पुनः᳚ । इत् । सः । ए॒ति॒ । आ । नः॒ । वा॒जी । अ॒भी॒षाट् । ए॒तु॒ । नव्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वस्यामृच्युक्तएवार्थोत्र प्रपंच्यते अरणो रममाणो न्योदर्यः सुशेवः सुखतमःसन् ग्रभाय पुत्रत्वेन ग्रहणाय मनसा मन्तवाउ मनसापि- मन्तव्यो नभवति । अधचित् अपि च सोन्योदर्यः ओकइत् संस्थानमेव पुनरेति प्राप्नोति अतो वाजी अन्नवान् अभीषाट् शत्रूणामभि- भविता नव्यो नवजातः पुत्रो नोस्मान् आएतु आगच्छतु ॥ ८ ॥