प्र नाक᳚मृ॒ष्वं नु᳚नुदे बृ॒हन्तं᳚ द्वि॒ता नक्ष᳚त्रं प॒प्रथ᳚च्च॒ भूम᳚ ॥
पदपाठः (Word-by-word)
प्र । नाक᳚म् । ऋ॒ष्वम् । नु॒नु॒दे॒ । बृ॒हन्त᳚म् । द्वि॒ता । नक्ष᳚त्रम् । प॒प्रथ᳚त् । च॒ । भूम᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अस्य वरुणस्य जनूंषि जन्मानि महिना महिम्ना तु क्षिप्रं धीरा धीराणि धैर्यवन्ति भवन्ति योवरुणः उर्वी विस्तीर्णे रोदसी चित् द्यावापृ- थिव्यावपि वितस्तंभ विविधं स्तब्धे स्वकीये स्थाने स्थिते अकरोत् यश्च बृहन्तं महान्तं नाकमादित्यं नक्षत्रं च ऋष्वं दर्शनीयं द्विता द्वैधं प्रनुनुदे प्रेरयतिस्म अहनि सूर्यं दर्शनीयं प्रेरयति रात्रौ नक्षत्रं तथेति द्विप्रकारः । भूम भूमिं च यः पप्रथत् अप्रथयत् विस्तारितवान् तस्यास्य वरुणस्येत्यन्वयः ॥ १ ॥