श्रवणम्

7.86.8
अ॒यं सु तुभ्यं᳚ वरुण स्वधावो हृ॒दि स्तोम॒ उप᳚श्रितश्चिदस्तु ।
शं न॒ः क्षेमे॒ शमु॒ योगे᳚ नो अस्तु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सु । तुभ्य᳚म् । व॒रु॒ण॒ । स्व॒धा॒॑वः॒ । हृ॒दि । स्तोमः᳚ । उप᳚॑श्रितः । चि॒त् । अ॒स्तु॒ ।
शम् । नः॒ । क्षेमे᳚ । शम् । ऊं॒ इति᳚ । योगे᳚ । नः॒ । अ॒स्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वधावः अन्नवन्वरुण तुभ्यं त्वदर्थं क्रियमाणः अयं एतत्सूक्तात्मकः स्तोमः स्तोत्रं त्दृदि त्वदीये हृदये सु सुष्ठु उपश्रितः उपगतः समवे- तेस्तु चिदितिपूरकः अप्राप्तस्य प्रापणं योगः प्राप्तस्य रक्षणं क्षेमः नोस्मदीये क्षेमे रक्षणे शं उपद्रवाणांशमनमस्तु योगेच नोस्मदीये प्रापणे शमु शमनमेवास्तु उपद्रवाणां हे वरुणादयोदेवाः यूयं नोस्मान्सर्वदा स्वस्तिभिरविनाशैः पात रक्षत ॥ ८ ॥

रदत्पथइति स्प्तर्चं सप्तदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वारुणं अनुक्रान्तञ्च-रदत्सप्तेति । गतोविनियोगः ।