पृ॒च्छे तदेनो᳚ वरुण दि॒दृक्षूपो᳚ एमि चिकि॒तुषो᳚ वि॒पृच्छ᳚म् ।
स॒मा॒नमिन्मे᳚ क॒वय᳚श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु᳚णो हृणीते ॥
स॒मा॒नमिन्मे᳚ क॒वय᳚श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु᳚णो हृणीते ॥
पदपाठः (Word-by-word)
पृ॒च्छे । तत् । एनः᳚ । व॒रु॒ण॒ । दि॒दृक्षु᳚ । उपो॒ इति᳚ । ए॒मि॒ । चि॒कि॒तुषः᳚ । वि॒॑पृच्छ᳚म् ।
स॒मा॒नम् । इत् । मे॒ । क॒वयः᳚ । चि॒त् । आ॒हुः॒ । अ॒यम् । ह॒ । तुभ्य᳚म् । वरु᳚णः । हृ॒णी॒ते॒ ॥
स॒मा॒नम् । इत् । मे॒ । क॒वयः᳚ । चि॒त् । आ॒हुः॒ । अ॒यम् । ह॒ । तुभ्य᳚म् । वरु᳚णः । हृ॒णी॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे वरुण तदेनः पापं पृच्छे त्वां पृच्छामि दिदृक्षु छान्दसः सुलोपः द्रष्टुमिच्छन्नहं येन पापेन हेतुना त्वदीयैः पाशैर्बद्धोस्मि पृष्टःसन् तत्पापं कथय अहं विपृच्छं विविधं प्रष्टुं चिकितुषोविदुषोजनान् उपोएमि उपागाम् ते कवयश्चित् क्रान्तदर्शिनोजनाश्च मे मह्यं समान- मित् समानमेव एकरूपमेव आहुः अकथयन् यदाहुस्तदाह हे स्तोतः तुभ्यं अयं ह अयमेव वरुणोहणीते क्रुधयतीति अतः क्रोधं परित्यज्य अस्मान्पाशेभ्योमोचय ॥ ३ ॥