अस्ति॒ ज्याया॒न्कनी᳚यस उपा॒रे स्वप्न᳚श्च॒नेदनृ᳚तस्य प्रयो॒ता ॥
पदपाठः (Word-by-word)
अस्ति᳚ । ज्याया᳚न् । कनी᳚यसः । उ॒प॒॑अ॒रे । स्वप्नः᳚ । च॒न । इत् । अनृ᳚तस्य । प्र॒॑यो॒ता ॥
सायणभाष्यम् (Sayana Commentary)
हे वरुण सः स्वोदक्षः पुरुषस्य स्वरूपवद्बलं पापप्रवृत्तौ कारणं न भवति किं तर्हि ध्रुतिः स्थिराउत्पत्तिसमयएव निर्मिता दैवगतिः कारणम् । ध्रुगतिस्थैर्ययोरितिधातुः । साच ध्रुतिः वक्ष्यमाणरूपासुरा प्रमादकारिणी मन्युः क्रोधश्च गुर्वादिविषयः सन् अनर्थहेतुः विभीदकः द्यूतसाधनोक्षः सच द्यूतेषु पुरुषं प्रेरयन्ननर्थहेतुर्भवति अचित्तिः अज्ञानं अविवेककारणं अतईदृशी दैवकॢप्तिरेव पुरुषस्य पापप्र- वृत्तौ कारणम् अपिच कनीयसः अल्पस्य हीनस्य पुरुषस्य पापप्रवृत्तौ उपारे उपागते समीपे नियंतृत्वेनस्थितः ज्यायानधिकः ईश्वरोस्ति सएव तं पापेप्रवर्तयति तथाचाम्नातम्-एषत्द्येवासाधुकर्मकारयति तंयमधोनिनीषतइति । एवंच सतिस्वप्नश्चनस्वप्नोपि अनृतस्य पापस्य प्रयोता प्रकर्षेण मिश्रयिता भवति इदितिपूरकः स्वमे कृतैरपि कर्मभिर्बहूनि पापानि जायन्ते किमुवक्तव्यं जाग्रतिकृतैः कर्मभिः पापान्यु- त्पद्यन्तइति । अतोममापरा धोदैवागतइति हे वरुण त्वया क्षन्तव्य इतिभावः ॥ ६ ॥