किमाग᳚ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां᳚ससि॒ सखा᳚यम् ।
प्र तन्मे᳚ वोचो दूळभ स्वधा॒वो॑व᳚ त्वाने॒ना नम᳚सा तु॒र इ᳚याम् ॥
प्र तन्मे᳚ वोचो दूळभ स्वधा॒वो॑व᳚ त्वाने॒ना नम᳚सा तु॒र इ᳚याम् ॥
पदपाठः (Word-by-word)
किम् । आगः᳚ । आ॒स॒ । व॒रु॒ण॒ । ज्येष्ठ᳚म् । यत् । स्तो॒तार᳚म् । जिघां᳚ससि । सखा᳚यम् ।
प्र । तत् । मे॒ । वो॒चः॒ । दुः॒॑द॒भ॒ । स्व॒धा॒॑वः॒ । अव᳚ । त्वा॒ । अ॒ने॒नाः । नम᳚सा । तु॒रः । इ॒या॒म् ॥
प्र । तत् । मे॒ । वो॒चः॒ । दुः॒॑द॒भ॒ । स्व॒धा॒॑वः॒ । अव᳚ । त्वा॒ । अ॒ने॒नाः । नम᳚सा । तु॒रः । इ॒या॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे वरुण ज्येष्टमधिकं किं आगः आस कोपराधोमयाकृतोबभूव् यत् येन आगसा सखायं मित्रभूतं सन्तं स्तोतारं जिघांससि हन्तुमिच्छसि । हे दूळभ दुर्दभ अन्यैर्बाधितुमशक्य स्वधावस्तेजस्विन् हे वरुण तदागः मे मह्यं प्रवोचः प्रब्रूहि एवं सति तस्यप्रायश्चित्तं कृत्वा अनेनाः अपापः सन्नहंतुरस्त्वरमाणः शीघ्रः नमसा नमस्कारेण हविषा वा त्वा त्वां अवेयां अवगच्छेयम् ॥ ४ ॥