श्रवणम्

7.86.2
उ॒त स्वया᳚ त॒न्वा॒३॒᳚ सं व᳚दे॒ तत्क॒दा न्व१॒᳚न्तर्वरु᳚णे भुवानि ।
किं मे᳚ ह॒व्यमहृ᳚णानो जुषेत क॒दा मृ᳚ळी॒कं सु॒मना᳚ अ॒भि ख्य᳚म् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्वया᳚ । त॒न्वा᳚ । सम् । व॒दे॒ । तत् । क॒दा । नु । अ॒न्तः । वरु᳚णे । भु॒वा॒नि॒ ।
किम् । मे॒ । ह॒व्यम् । अहृ᳚णानः । जु॒षे॒त॒ । क॒दा । मृ॒ळी॒कम् । सु॒॑मनाः᳚ । अ॒भि । ख्य॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणं शीघ्रं दिदृक्षमाणऋषिरनयावितर्कयति उतेति विचिकित्सायाम् उत किं स्वया तन्वा स्वीयेन आत्मीयेन शरीरेण संवदे सहवदनं करोमि आहोस्वित् तत्तेन वरुणेन सहसंवदे कदानु कदा खलु वरुणे देवे अन्तर्भूतोभवानि वरुणस्य चित्ते संलग्नोभवानीत्यर्थः अपिच मे मदीयं हव्यं स्तोत्रं हविर्वा अहृणानोकुध्यन् वरुणः किं केन हेतुना जुषेत सेवेत सुमनाः शोभनमनस्कः सन्नहं कदा कस्मिन्काले मृळीकं सुखयितारं वरुणं अभिख्यं अभिपश्येयम् ॥ २ ॥