हे इन्द्राग्नी तौ युवां दुःशंसं दुष्टाभिशंसनं दुर्विद्वांसं दुर्विज्ञानं रक्षस्विनं बलवन्तं आभोगं आहृत्यास्मत्तोपहृत्य भोक्तारंमर्त्यं मनुष्यं शत्रुं हन्मना हननसाधनेनायुधेन हतं हिंस्तं उक्तमेवार्थं दृष्टान्तेन द्रढयति-उदधिं लुप्तोपममेतत् उदधानं कुंभमिव यथा कुंभअनाया- सेनभिद्यन्ते एवमनायासेनैव शत्रुं आयुधेन युवां हिंस्तम् ॥ १२ ॥
प्रक्षोदसेति षळृचं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं सरस्वतीदेवताकम् तृतीयातु सरस्वद्देवताका अनुक्रम्यतेच-प्रक्षोदसाषट् सारस्वतंतु तृतीयासरस्वतइति । गतःसूक्तविनियोगः । प्रथमेछन्द्रोमे प्रउगशस्त्रे प्रक्षोदसाधायसासस्रएषेति प्रउगमिति । सारस्वतेपशौ प्रक्षोदसेति वपायायाज्या सूत्रितश्च-पक्षोदसाधायसासस्रएषा पावीरवीकन्याचित्रायुरिति ।