शृ॒णु॒तं ज᳚रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒ वन᳚तं॒ गिरः᳚ ।
ई॒शा॒ना पि᳚प्यतं॒ धियः᳚ ॥
ई॒शा॒ना पि᳚प्यतं॒ धियः᳚ ॥
पदपाठः (Word-by-word)
शृ॒णु॒तम् । ज॒रि॒तुः । हव᳚म् । इन्द्रा᳚ग्नी॒ इति᳚ । वन᳚तम् । गिरः᳚ ।
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः᳚ ॥
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्राग्नी जरितुः स्तोतुः हवमाह्वानं युवां शृणुतं श्रुत्वा च गिरस्तदीयास्तुतिर्वनतं संभजतम् तथा ईशाना ईश्वरौ युवां धियः अनुष्ठि- तानि कर्माणि पिप्यतं तत्स्थैः फलैः पूरयतम् ॥ २ ॥