श्रवणम्

7.94.10
यत्सोम॒ आ सु॒ते नर᳚ इन्द्रा॒ग्नी अजो᳚हवुः ।
सप्ती᳚वन्ता सप॒र्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । सोमे᳚ । आ । सु॒ते । नरः᳚ । इ॒न्द्रा॒ग्नी इति᳚ । अजो᳚हवुः ।
सप्ति᳚॑वन्ता । स॒प॒र्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमे सुते अभिषुते सति नरः कर्मणां नेतारः ऋत्विजः सपर्यवः परिचरणकामाः सन्तः सप्तीवन्ता प्रशस्ताश्वौ इन्द्राग्नीइन्द्रमग्निं च यद्यदा अजोहवुरभिह्वयन्ते तदा युवामागच्छतमितिशेषः ॥ १० ॥