ता हि शश्व᳚न्त॒ ईळ᳚त इ॒त्था विप्रा᳚स ऊ॒तये᳚ ।
स॒बाधो॒ वाज᳚सातये ॥
स॒बाधो॒ वाज᳚सातये ॥
पदपाठः (Word-by-word)
ता । हि । शश्व᳚न्तः । ईळ᳚ते । इ॒त्था । विप्रा᳚सः । ऊ॒तये᳚ ।
स॒॑बाधः᳚ । वाज᳚॑सातये ॥
स॒॑बाधः᳚ । वाज᳚॑सातये ॥
सायणभाष्यम् (Sayana Commentary)
ता हितौ खलु इन्द्राग्नी शश्वन्तः बहवः विप्रसोमेधाविनोजनाः ऊतये रक्षणाय इत्था इत्थमनेन प्रकारेण ईळते स्तुवन्ति । तथा सबाधः समानं बाधमानाः प्रस्परं बाध्यमानाः जनाः वाजसातये अन्नलाभाय तावेवेन्द्राग्नी ईळते स्तुवन्ति यद्वा वाजसातिरिति सङ्ग्रामनाम सङ्ग्रामार्थम् ॥ ५ ॥