श्रवणम्

7.94.1
इ॒यं वा᳚म॒स्य मन्म᳚न॒ इन्द्रा᳚ग्नी पू॒र्व्यस्तु᳚तिः ।
अ॒भ्राद्वृ॒ष्टिरि᳚वाजनि ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । वा॒म् । अ॒स्य । मन्म᳚नः । इन्द्रा᳚ग्नी॒ इति᳚ । पू॒र्व्य॑स्तु᳚तिः ।
अ॒भ्रात् । वृ॒ष्टिः॑इ᳚व । अ॒ज॒नि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी इयं पूर्व्यस्तुतिः पूर्व्या मुख्यास्तुतिः अस्य मन्मनः स्तोतुः अस्माद्वसिष्ठात् वां युवाभ्यां युवयोरर्थं अभ्रात् मेघात् वृष्टिरिव बह्वी सती अजनि प्रादुर्भूता तां शृणुतमित्युत्तरत्र संबन्धः ॥ १ ॥