गोम॒द्धिर᳚ण्यव॒द्वसु॒ यद्वा॒मश्वा᳚व॒दीम᳚हे ।
इन्द्रा᳚ग्नी॒ तद्व᳚नेमहि ॥
इन्द्रा᳚ग्नी॒ तद्व᳚नेमहि ॥
पदपाठः (Word-by-word)
गो॑म᳚त् । हिर᳚ण्य॑वत् । वसु᳚ । यत् । वा॒म् । अश्व᳚॑वत् । ईम᳚हे ।
इन्द्रा᳚ग्नी॒ इति᳚ । तत् । व॒ने॒म॒हि॒ ॥
इन्द्रा᳚ग्नी॒ इति᳚ । तत् । व॒ने॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्राग्नी गोमत् गोभिर्युक्तं हिरण्यवत् हिरण्यैः सुवर्णौर्युक्तम् अस्वैश्चोपेतं यद्वसु वां युवां ईमहे याचामहे तद्वसु युवयोः प्रसादात् वयं वनेमहि संभजेमहि ॥ ९ ॥ चातुर्विंशिकेहनि प्रातःसवने अच्छावाकश्त्रै यत्सोमआसुतइत्यारंभणीया अहर्गणेषुच द्वितीयादिष्वहस्सु एषा प्रातःसवने तेनैवशंसनीया सूत्रितञ्च-यत्सोमआसुतेनरइत्यारंभणीयाः शस्त्वेति ।