सप्तमं मण्डलम् - सूक्तम् 24

6 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.24 - सम्पूर्णम्

1 / 6
ऋक्: 7.24.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.24.1
योनि᳚ष्ट इन्द्र॒ सद᳚ने अकारि॒ तमा नृभि᳚ः पुरुहूत॒ प्र या᳚हि ।
असो॒ यथा᳚ नो॑वि॒ता वृ॒धे च॒ ददो॒ वसू᳚नि म॒मद᳚श्च॒ सोमै᳚ः ॥
▶ पदपाठः (Word-by-word)
योनिः᳚ । ते॒ । इ॒न्द्र॒ । सद᳚ने । अ॒का॒रि॒ । तम् । आ । नृ॑भिः᳚ । पु॒रु॒॑हू॒त॒ । प्र । या॒हि॒ ।
असः᳚ । यथा᳚ । नः॒ । अ॒वि॒ता । वृ॒धे । च॒ । ददः᳚ । वसू᳚नि । म॒मदः᳚ । च॒ । सोमैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सदने सदनार्थं योनिः स्थानमकारि । हे पुरुहूत नृभिर्मरुद्भिः सार्धं तं योनिमाप्रयाहि । नोस्माकं यथाविता रक्षिता असः भवसि नोस्माकं वृधे वर्धनाय चासः तथा च वसूनि ददः अस्मभ्यं देहि सोमैरस्मदीयैर्ममदः मादयस्व च ॥ १ ॥

7.24.2
गृ॒भी॒तं ते॒ मन᳚ इन्द्र द्वि॒बर्हा᳚ः सु॒तः सोम॒ः परि᳚षिक्ता॒ मधू᳚नि ।
विसृ᳚ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु᳚वती मनी॒षा ॥
▶ पदपाठः (Word-by-word)
गृ॒भी॒तम् । ते॒ । मनः᳚ । इ॒न्द्र॒ । द्वि॒॑बर्हाः᳚ । सु॒तः । सोमः᳚ । परि᳚॑सिक्ता । मधू᳚नि ।
विसृ᳚ष्ट॑धेना । भ॒र॒ते॒ । सु॒॑वृ॒क्तिः । इ॒यम् । इन्द्र᳚म् । जोहु᳚वती । म॒नी॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र द्विबर्हाः षष्ठ्यर्थे प्रथमा द्विबर्हसोद्वयोः स्थानयोः परिवृढस्य ते तवमनोगृभीतमस्माभिः परिगृहीतं सोमश्च सुतोभिषुतः मधूनि च परिषिक्तानि विसृष्टधेना विसृष्टजिह्वा मध्यमस्वरेणोच्चार्यमाणा सुवृक्तिः सुसमाप्तिरियं मनीषा स्तुतिरिन्द्रं जोहुवती भृशमाह्वयन्ती भरते संभ्रियते च ॥ २ ॥

7.24.3
आ नो᳚ दि॒व आ पृ᳚थि॒व्या ऋ᳚जीषिन्नि॒दं ब॒र्हिः सो᳚म॒पेया᳚य याहि ।
वह᳚न्तु त्वा॒ हर᳚यो म॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚ त॒वसं॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । इ॒दम् । ब॒र्हिः । सो॒म॒॑पेया᳚य । या॒हि॒ ।
वह᳚न्तु । त्वा॒ । हर᳚यः । म॒द्र्य᳚ञ्चम् । आ॒ङ्गू॒षम् । अच्छ᳚ । त॒वस᳚म् । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋजीषिन्निन्द्र नोस्माकमिदं बर्हिरिमं यज्ञं सोमपेयाय दिवः स्वर्गादायाह्यागच्छ पृथिव्या अन्तरिक्षाच्च आपः पृथिवीत्यन्तरिक्षनामसु पाठात् आयाहि अपि च तवसं प्रवृद्धं बलवन्तं वा मड्मंचं मदभिमुखं त्वा त्वां आंगूषं स्तोत्रं अच्छाभि मदाय मदार्थं हरयोश्वावहन्तु ॥ ३ ॥

7.24.4
आ नो॒ विश्वा᳚भिरू॒तिभि᳚ः स॒जोषा॒ ब्रह्म᳚ जुषा॒णो ह᳚र्यश्व याहि ।
वरी᳚वृज॒त्स्थवि᳚रेभिः सुशिप्रा॒स्मे दध॒द्वृष᳚णं॒ शुष्म᳚मिन्द्र ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ । स॒॑जोषाः᳚ । ब्रह्म᳚ । जु॒षा॒णः । ह॒रि॒॑अ॒श्व॒ । या॒हि॒ ।
वरी᳚वृजत् । स्थवि᳚रेभिः । सु॒॑शि॒प्र॒ । अ॒स्मे इति᳚ । दध᳚त् । वृष᳚णम् । शुष्म᳚म् । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हर्यश्व हरिनामकाश्च सुशिप्र शोभनहनो इन्द्र विश्वाभिः सर्वाभिरूतिभीरक्षाभिः सजोषाः संगतः स्थविरेभिर्वृद्धैर्मरुद्भिः सह वरीवृजत् शत्रून् भृशं हिंसन् अस्मे अस्मभ्यं वृषणं कामानां वर्षितारं शुष्मं वलवन्तं पुत्रं दधत् प्रयच्छन् ब्रह्म स्तोत्रं जुषाणः सेवमानो नोस्मानाया- हि ॥ ४ ॥

7.24.5
ए॒ष स्तोमो᳚ म॒ह उ॒ग्राय॒ वाहे᳚ धु॒री॒३॒᳚वात्यो॒ न वा॒जय᳚न्नधायि ।
इन्द्र᳚ त्वा॒यम॒र्क ई᳚ट्टे॒ वसू᳚नां दि॒वी᳚व॒ द्यामधि᳚ न॒ः श्रोम᳚तं धाः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । म॒हे । उ॒ग्राय᳚ । वाहे᳚ । धु॒रि॑इ᳚व । अत्यः᳚ । न । वा॒जय᳚न् । अ॒धा॒यि॒ ।
इन्द्र᳚ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू᳚नाम् । दि॒वि॑इ᳚व । द्याम् । अधि᳚ । नः॒ । श्रोम᳚तम् । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महे महते अग्राय उद्गूर्णाय ओजस्विने वा वाहे विश्वस्य वोढ्रे इन्द्राय धुरीव रथस्य अत्योनाश्वइव वाजयन् बलं कुर्वन् एषः स्तोमः अधायि व्यधायि । अथ प्रत्यक्षस्तुतिः हेइन्द्र त्वा त्वां अयमर्कः स्तोता वसूनां वसूनि धनानि ईट्टे याचते सत्वं नोस्मासु द्यां दिवीव श्रोमतं श्रवणीयमन्नं पत्रं वा अधि धाः अधि धेहि ॥ ५ ॥

7.24.6
ए॒वा न᳚ इन्द्र॒ वार्य᳚स्य पूर्धि॒ प्र ते᳚ म॒हीं सु᳚म॒तिं वे᳚विदाम ।
इषं᳚ पिन्व म॒घव᳚द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । इ॒न्द्र॒ । वार्य᳚स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒॑म॒तिम् । वे॒वि॒दा॒म॒ ।
इष᳚म् । पि॒न्व॒ । म॒घव᳚त्॑भ्यः । सु॒॑वीरा᳚म् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोस्मान् एव एवं वार्यस्य तृतीयार्थे षष्ठी वरणीयेन धनेन पूर्धि पूरय । ते तव महीं महतीं सुमतिं अनुग्रहबुद्धिं प्रवेविदाम भृशं लभेमहि मघवड्भोस्मभ्यं सुवीरां शोभनपुत्रादियुतां इषमन्नं पिन्व प्रयच्छेत्यर्थः । स्पष्टमन्यत् ॥ ६ ॥

आतेमहइन्द्रेति षळृचमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं आतइत्यनुक्रान्तम् । महाव्रते निष्केवल्ये इदमादीनि पंचसूक्तानि सूत्रितंच- आतेमहइन्द्रोत्युग्रेति पंचसूक्तानीति ।