श्रवणम्

7.24.1
योनि᳚ष्ट इन्द्र॒ सद᳚ने अकारि॒ तमा नृभि᳚ः पुरुहूत॒ प्र या᳚हि ।
असो॒ यथा᳚ नो॑वि॒ता वृ॒धे च॒ ददो॒ वसू᳚नि म॒मद᳚श्च॒ सोमै᳚ः ॥
▶ पदपाठः (Word-by-word)
योनिः᳚ । ते॒ । इ॒न्द्र॒ । सद᳚ने । अ॒का॒रि॒ । तम् । आ । नृ॑भिः᳚ । पु॒रु॒॑हू॒त॒ । प्र । या॒हि॒ ।
असः᳚ । यथा᳚ । नः॒ । अ॒वि॒ता । वृ॒धे । च॒ । ददः᳚ । वसू᳚नि । म॒मदः᳚ । च॒ । सोमैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सदने सदनार्थं योनिः स्थानमकारि । हे पुरुहूत नृभिर्मरुद्भिः सार्धं तं योनिमाप्रयाहि । नोस्माकं यथाविता रक्षिता असः भवसि नोस्माकं वृधे वर्धनाय चासः तथा च वसूनि ददः अस्मभ्यं देहि सोमैरस्मदीयैर्ममदः मादयस्व च ॥ १ ॥