श्रवणम्

7.24.5
ए॒ष स्तोमो᳚ म॒ह उ॒ग्राय॒ वाहे᳚ धु॒री॒३॒᳚वात्यो॒ न वा॒जय᳚न्नधायि ।
इन्द्र᳚ त्वा॒यम॒र्क ई᳚ट्टे॒ वसू᳚नां दि॒वी᳚व॒ द्यामधि᳚ न॒ः श्रोम᳚तं धाः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । म॒हे । उ॒ग्राय᳚ । वाहे᳚ । धु॒रि॑इ᳚व । अत्यः᳚ । न । वा॒जय᳚न् । अ॒धा॒यि॒ ।
इन्द्र᳚ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू᳚नाम् । दि॒वि॑इ᳚व । द्याम् । अधि᳚ । नः॒ । श्रोम᳚तम् । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महे महते अग्राय उद्गूर्णाय ओजस्विने वा वाहे विश्वस्य वोढ्रे इन्द्राय धुरीव रथस्य अत्योनाश्वइव वाजयन् बलं कुर्वन् एषः स्तोमः अधायि व्यधायि । अथ प्रत्यक्षस्तुतिः हेइन्द्र त्वा त्वां अयमर्कः स्तोता वसूनां वसूनि धनानि ईट्टे याचते सत्वं नोस्मासु द्यां दिवीव श्रोमतं श्रवणीयमन्नं पत्रं वा अधि धाः अधि धेहि ॥ ५ ॥