सप्तमं मण्डलम् - सूक्तम् 16

12 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: बृहती

सूक्तम् 7.16 - सम्पूर्णम्

1 / 12
ऋक्: 7.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
7.16.1
ए॒ना वो᳚ अ॒ग्निं नम᳚सो॒र्जो नपा᳚त॒मा हु᳚वे ।
प्रि॒यं चेति᳚ष्ठमर॒तिं स्व᳚ध्व॒रं विश्व᳚स्य दू॒तम॒मृत᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒ना । वः॒ । अ॒ग्निम् । नम᳚सा । ऊ॒र्जः । नपा᳚तम् । आ । हु॒वे॒ ।
प्रि॒यम् । चेति᳚ष्ठम् । अ॒र॒तिम् । सु॒॑अ॒ध्व॒रम् । विश्व᳚स्य । दू॒तम् । अ॒मृत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्जो बलस्य नपातं पुत्रं सनुः नपादित्यपत्यनामसु पाठात् प्रियं प्रियस्माकं चेतिष्ठं अतिशयेन ज्ञातारं प्रज्ञापकंवा अरतिं गन्तारं स्वामिनं वा स्वध्वरं सुयज्ञं विश्वस्य सर्वस्य यजमानस्य दूतममृतं नित्यमग्निमेना एनेन नमसा स्तोत्रेण यद्यप्यत्रान्वादेशोनास्ति तथापि छान्द- सत्वादिदंशब्दस्यैनादेशः । यद्वा एना एनमित्यग्नेर्विशेषणं समानार्षत्वात् पूर्वेषु सूक्तेष्वादिष्टत्वाद्वसिष्ठेनान्वादिश्यते । वोयुष्मदर्थमाहुवे आह्वयामि ॥ १ ॥

7.16.2 समानपद
स यो᳚जते अरु॒षा वि॒श्वभो᳚जसा॒ स दु᳚द्रव॒त्स्वा᳚हुतः ।
सु॒ब्रह्मा᳚ य॒ज्ञः सु॒शमी॒ वसू᳚नां दे॒वं राधो॒ जना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
सः । यो॒ज॒ते॒ । अ॒रु॒षा । वि॒श्व॑भो᳚जसा । सः । दु॒द्र॒व॒त् । सु॑आ᳚हुतः ।
सु॒॑ब्रह्मा᳚ । य॒ज्ञः । सु॒॑शमी᳚ । वसू᳚नाम् । दे॒वम् । राधः᳚ । जना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोग्निररुषा आरोचमानौ विश्वभोजसा विश्वस्य पालयितारौ अश्वौ योजते रथे युनक्तु । यद्वा सोग्निः अरुषा आरोचमानेन तेजसा विश्व- भोजसा विश्वरक्षकेण योजते अयुज्यत । किं च सोग्निः दुद्रवत् आनेतुं देवान् प्रति भृशं द्रवतु द्रवतिवा । स्वाहुतः सुष्ठ्वाहुतः सुब्रह्मा सुस्तुतिः शोभनान्नोवा यष्टव्यः सुशमी सुकर्माच भवति । तमिमं देवं द्योतमानं वसूनां वासकानां जनानां वसिष्ठानां राधो हविरभि- गच्छत्वितिशेषः । यद्वा एवंगुणविशिष्टोग्निः वसूनां धनानां मध्ये देवमत्यन्तप्रकाशमानं राधो धनं जनानां यजमानानां धनवत्प्रियतम- इत्यर्थः ॥ २ ॥

7.16.3
उद᳚स्य शो॒चिर᳚स्थादा॒जुह्वा᳚नस्य मी॒ळ्हुषः᳚ ।
उद्धू॒मासो᳚ अरु॒षासो᳚ दिवि॒स्पृश॒ः सम॒ग्निमि᳚न्धते॒ नरः᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । आ॒॑जुह्वा᳚नस्य । मी॒ळ्हुषः᳚ ।
उत् । धू॒मासः᳚ । अ॒रु॒षासः᳚ । दि॒वि॒॑स्पृशः᳚ । सम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मीह्ळुषः कामानां वर्षितुः आजुह्वानस्याभिहूयमानस्याग्नेः शोचिस्तेजः उदस्थादुत्तिष्ठति अरुषासः आरोचमानाः दिविस्पृशोन्तरिक्ष- स्पृशो धूमासोधूमाश्च उदस्थुः अस्थात् इत्येकवचनान्तं बहुवचनान्ततया विपरिणतंसदत्रान्वेति । तमिममग्निं नरः कर्मणां नेतारः ऋत्विजः समिन्धते सम्यक् दीपयन्ति ॥ ३ ॥

7.16.4 समानपद
तं त्वा᳚ दू॒तं कृ᳚ण्महे य॒शस्त᳚मं दे॒वा{4} आ वी॒तये᳚ वह ।
विश्वा᳚ सूनो सहसो मर्त॒भोज᳚ना॒ रास्व॒ तद्यत्त्वेम᳚हे ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । दू॒तम् । कृ॒ण्म॒हे॒ । य॒शः॑त᳚मम् । दे॒वान् । आ । वी॒तये᳚ । व॒ह॒ ।
विश्वा᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । म॒र्त॒॑भोज᳚ना । रास्व᳚ । तत् । यत् । त्वा॒ । ईम᳚हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसःसूनो बलस्यपुत्राग्ने यशस्तममतिशयेन यशस्विनं तं प्रतिद्धं यं त्वा त्वां दूतं कृण्महे कुर्मः । सः त्वं देवान् वीतये हविषां भक्षणाय आवह । किं च यद्यदा त्वा त्वां ईमहे याचामहे । तदैव विश्वा विश्वानि मर्तभोजनानि मनुष्याणां भोग्यानि कल्याणानि धनानि रास्वा- स्मभ्यं देहि ॥ ४ ॥

7.16.5
त्वम᳚ग्ने गृ॒हप᳚ति॒स्त्वं होता᳚ नो अध्व॒रे ।
त्वं पोता᳚ विश्ववार॒ प्रचे᳚ता॒ यक्षि॒ वेषि᳚ च॒ वार्य᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । गृ॒ह॑प᳚तिः । त्वम् । होता᳚ । नः॒ । अ॒ध्व॒रे ।
त्वम् । पोता᳚ । वि॒श्व॒॑वा॒र॒ । प्र॑चे᳚ताः । यक्षि᳚ । वेषि᳚ । च॒ । वार्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्ववार विश्वैर्वरणीयाग्ने त्वं नोस्माकमध्वरे यागे गृहपतिरसि यजमानोसि । त्वं होता देवानामाह्वाता त्वं त्वमेव पोतासि । अतः प्रचेताः प्रकृष्टमतिस्त्वं वार्यं वरणीयं हविः यक्षि यज वेषि च कामयस्व भक्षयवा ॥ ५ ॥

7.16.6
कृ॒धि रत्नं॒ यज᳚मानाय सुक्रतो॒ त्वं हि र᳚त्न॒धा असि᳚ ।
आ न᳚ ऋ॒ते शि᳚शीहि॒ विश्व᳚मृ॒त्विजं᳚ सु॒शंसो॒ यश्च॒ दक्ष᳚ते ॥
▶ पदपाठः (Word-by-word)
कृ॒धि । रत्न᳚म् । यज᳚मानाय । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । त्वम् । हि । र॒त्न॒॑धाः । असि᳚ ।
आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व᳚म् । ऋ॒त्विज᳚म् । सु॒॑शंसः᳚ । यः । च॒ । दक्ष᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुक्रतो शोभनकर्मन्नग्ने यजमानाय मह्यं रत्नं धनं श्वात्रं रत्नमिति धननामसु पाठात् कृधि कुरु देहीत्यर्थः । हि यस्मात्त्वं रत्नधाः रत्नस्य दातासि । नोस्माकमृते यज्ञे विश्वं सर्वं ऋत्विजं आशिशीहि तीक्ष्णीकुरु । किं च यः सुशंसः सुस्तुतिरस्मत्पुत्रो दक्षते वर्धते तं वर्धय यः सुशंसो होता वर्धते तं वर्धयेत्यर्थः । होतुः पृथगुपादानमादरार्थं ॥ ६ ॥

7.16.7
त्वे अ᳚ग्ने स्वाहुत प्रि॒यासः᳚ सन्तु सू॒रयः᳚ ।
य॒न्तारो॒ ये म॒घवा᳚नो॒ जना᳚नामू॒र्वान्दय᳚न्त॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । अ॒ग्ने॒ । सु॒॑आ॒हु॒त॒ । प्रि॒यासः᳚ । स॒न्तु॒ । सू॒रयः᳚ ।
य॒न्तारः᳚ । ये । म॒घ॑वा᳚नः । जना᳚नाम् । ऊ॒र्वान् । दय᳚न्त । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्वाहुत यजमानैः सुष्ठु आहुत त्वे तव सूरयः प्रेरकाः स्तोतारोवा प्रियासः प्रियाः सन्तु भवन्तु । किं च ये मघवानो धनवन्तो यन्तारः प्रदातारः जनानामस्मदीयानामूर्वान् समूहान् गोनां गवां च ऊर्वान् दयन्त प्रयच्छन्ति ते च तव प्रियासः सन्त्विति पूर्वेण संबंधः ॥ ७ ॥

7.16.8
येषा॒मिळा᳚ घृ॒तह᳚स्ता दुरो॒ण आ{4} अपि᳚ प्रा॒ता नि॒षीद᳚ति ।
ता{4}स्त्रा᳚यस्व सहस्य द्रु॒हो नि॒दो यच्छा᳚ न॒ः शर्म᳚ दीर्घ॒श्रुत् ॥
▶ पदपाठः (Word-by-word)
येषा᳚म् । इळा᳚ । घृ॒त॑ह᳚स्ता । दु॒रो॒णे । आ । अपि᳚ । प्रा॒ता । नि॒॑सीद᳚ति ।
तान् । त्रा॒य॒स्व॒ । स॒ह॒स्य॒ । द्रु॒हः । नि॒दः । यच्छ᳚ । नः॒ । शर्म᳚ । दी॒र्घ॒॑श्रुत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषां दुरोणे गृहे घृतहस्ता घृतयुक्तो हस्तो यस्याअसौ घृतहस्ता घृतेनाभिघारितेत्यर्थः । इळान्नरूपा हविर्लक्षणा देवी इरा इळेत्यन्ननाम- सु पाठात् । प्राता पूर्णा आनिषीदति आसीदति । अपीतिपूरणः तान् हविष्मतो यजमानान् हे सहस्य सहसे बलाय हिताग्ने द्रुहो द्रोग्धुर्नि- दोनिन्दकाच्च शत्रोस्त्रायस्व । नोस्मभ्यं दीर्घश्रुत् दीर्घकालं श्रोतव्यं शर्म सुखं गृहं वा यच्छ च देहि ॥ ८ ॥

7.16.9
स म॒न्द्रया᳚ च जि॒ह्वया॒ वह्नि᳚रा॒सा वि॒दुष्ट᳚रः ।
अग्ने᳚ र॒यिं म॒घव᳚द्भ्यो न॒ आ व᳚ह ह॒व्यदा᳚तिं च सूदय ॥
▶ पदपाठः (Word-by-word)
सः । म॒न्द्रया᳚ । च॒ । जि॒ह्वया᳚ । वह्निः᳚ । आ॒सा । वि॒दुः॑त᳚रः ।
अग्ने᳚ । र॒यिम् । म॒घव᳚त्॑भ्यः । नः॒ । आ । व॒ह॒ । ह॒व्य॑दा᳚तिम् । च॒ । सू॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मन्द्रया च मोदयित्र्या देवानामासा आस्यस्थानीयया जिह्वया ज्वालया बह्निर्हविषां वोढा बिदुष्टरो विद्वत्तरः सप्रसिद्धस्त्वं मघवड्भ्यो हविष्मड्भ्यो नोस्मभ्यं रयिं धनं आवहच । हव्यदातिं हव्यानि ददातीतिहव्यदातिर्यजमानः तं तथाच वाजसनेयिनः आमि- नन्ति-यजमानोवै हव्यदातिरिति । सूदयच कर्मसु प्रेरयच ॥ ९ ॥

7.16.10 समानपद
ये राधां᳚सि॒ दद॒त्यश्व्या᳚ म॒घा कामे᳚न॒ श्रव᳚सो म॒हः ।
ता{4} अंह᳚सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य᳚विष्ठ्य ॥
▶ पदपाठः (Word-by-word)
ये । राधां᳚सि । दद᳚ति । अश्व्या᳚ । म॒घा । कामे᳚न । श्रव᳚सः । म॒हः ।
तान् । अंह᳚सः । पि॒पृ॒हि॒ । प॒र्तृ॑भिः᳚ । त्वम् । श॒तम् । पूः॒॑भिः । य॒वि॒ष्ठ्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ्य युवतमाग्ने त्वं ये यजमानाः महो महतः श्रवसो यशसः कामेन इच्छया यशस्कामाः सन्तइत्यर्थः । राधांसि साधकानि अश्व्या अश्वात्मकानि मघा मघानि ददति तान् दातॄन् अंहसः पापात् शत्रोर्वा पर्तृभिः रक्षासाधनभूतैः शतमपरिमिताभिः पूर्भिर्नगरीभिश्च पिपृहि पालय ॥ १० ॥

7.16.11
दे॒वो वो᳚ द्रविणो॒दाः पू॒र्णां वि᳚वष्ट्या॒सिच᳚म् ।
उद्वा᳚ सि॒ञ्चध्व॒मुप᳚ वा पृणध्व॒मादिद्वो᳚ दे॒व ओ᳚हते ॥
▶ पदपाठः (Word-by-word)
दे॒वः । वः॒ । द्र॒वि॒णः॒॑दाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒॑सिच᳚म् ।
उत् । वा॒ । सि॒ञ्चध्व᳚म् । उप᳚ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्रविणोदाः धनानां दाता देवोग्निः वो युष्मदीयां पूर्णां हविषा आसिचं आसिक्तं स्रुचं विवष्टि कामयते अतउत्सिंचध्वं वा सोमेन पात्र- मुपपृणध्वं वा सोमं वाशब्दौ समुच्चयार्थौ ध्रुवग्रहेण होतृचमसं पूरयत च अग्नये सोमं यच्छतचेत्यर्थः आदिदनंतरमेव देवोग्निर्वोयुष्मान् ओहते वहति ॥ ११ ॥

7.16.12 समानपद
तं होता᳚रमध्व॒रस्य॒ प्रचे᳚तसं॒ वह्निं᳚ दे॒वा अ᳚कृण्वत ।
दधा᳚ति॒ रत्नं᳚ विध॒ते सु॒वीर्य᳚म॒ग्निर्जना᳚य दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । होता᳚रम् । अ॒ध्व॒रस्य᳚ । प्र॑चे᳚तसम् । वह्नि᳚म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ।
दधा᳚ति । रत्न᳚म् । वि॒ध॒ते । सु॒॑वीर्य᳚म् । अ॒ग्निः । जना᳚य । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवाः प्रचेतसं प्रकृष्टमतिं अग्निमध्वरस्य यज्ञस्य वह्निं वोढारं होतारं चाकृण्वत अकुर्वन् । किमर्थमित्यत आह सचाग्निः विधते परिचरते दाशुषे हविषां प्रदात्रे जनाय सुवीर्यं शोभनवीर्योपेतं रत्नं रमणीयं धनं दधाति ददात्वित्यर्थः ॥ १२ ॥

अग्ने भव सुषमिधेति सप्तर्चं सप्तदशं सूक्तं वसिष्ठस्यार्षं अग्निदेवताकं सप्तापि द्विपदास्त्रिष्टुभः तथैवानुक्रम्यते-अग्नेभव सप्तद्वैपदं त्रैष्टुभमिति । अतिरात्रे षष्ठेहनि तृतीयसवने मैत्रावरुणशस्त्रे अग्नेभवेति तृचोनुरूपः सूत्र्यतेहि-अग्नेत्वन्नोअन्तमोग्नेभवसुषमिधासमिद्धइ- तिस्तोत्रियानुरूपाविति ।