श्रवणम्

7.16.6
कृ॒धि रत्नं॒ यज᳚मानाय सुक्रतो॒ त्वं हि र᳚त्न॒धा असि᳚ ।
आ न᳚ ऋ॒ते शि᳚शीहि॒ विश्व᳚मृ॒त्विजं᳚ सु॒शंसो॒ यश्च॒ दक्ष᳚ते ॥
▶ पदपाठः (Word-by-word)
कृ॒धि । रत्न᳚म् । यज᳚मानाय । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । त्वम् । हि । र॒त्न॒॑धाः । असि᳚ ।
आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व᳚म् । ऋ॒त्विज᳚म् । सु॒॑शंसः᳚ । यः । च॒ । दक्ष᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुक्रतो शोभनकर्मन्नग्ने यजमानाय मह्यं रत्नं धनं श्वात्रं रत्नमिति धननामसु पाठात् कृधि कुरु देहीत्यर्थः । हि यस्मात्त्वं रत्नधाः रत्नस्य दातासि । नोस्माकमृते यज्ञे विश्वं सर्वं ऋत्विजं आशिशीहि तीक्ष्णीकुरु । किं च यः सुशंसः सुस्तुतिरस्मत्पुत्रो दक्षते वर्धते तं वर्धय यः सुशंसो होता वर्धते तं वर्धयेत्यर्थः । होतुः पृथगुपादानमादरार्थं ॥ ६ ॥