तं होता᳚रमध्व॒रस्य॒ प्रचे᳚तसं॒ वह्निं᳚ दे॒वा अ᳚कृण्वत ।
दधा᳚ति॒ रत्नं᳚ विध॒ते सु॒वीर्य᳚म॒ग्निर्जना᳚य दा॒शुषे᳚ ॥
दधा᳚ति॒ रत्नं᳚ विध॒ते सु॒वीर्य᳚म॒ग्निर्जना᳚य दा॒शुषे᳚ ॥
पदपाठः (Word-by-word)
तम् । होता᳚रम् । अ॒ध्व॒रस्य᳚ । प्र॑चे᳚तसम् । वह्नि᳚म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ।
दधा᳚ति । रत्न᳚म् । वि॒ध॒ते । सु॒॑वीर्य᳚म् । अ॒ग्निः । जना᳚य । दा॒शुषे᳚ ॥
दधा᳚ति । रत्न᳚म् । वि॒ध॒ते । सु॒॑वीर्य᳚म् । अ॒ग्निः । जना᳚य । दा॒शुषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
देवाः प्रचेतसं प्रकृष्टमतिं अग्निमध्वरस्य यज्ञस्य वह्निं वोढारं होतारं चाकृण्वत अकुर्वन् । किमर्थमित्यत आह सचाग्निः विधते परिचरते दाशुषे हविषां प्रदात्रे जनाय सुवीर्यं शोभनवीर्योपेतं रत्नं रमणीयं धनं दधाति ददात्वित्यर्थः ॥ १२ ॥
अग्ने भव सुषमिधेति सप्तर्चं सप्तदशं सूक्तं वसिष्ठस्यार्षं अग्निदेवताकं सप्तापि द्विपदास्त्रिष्टुभः तथैवानुक्रम्यते-अग्नेभव सप्तद्वैपदं त्रैष्टुभमिति । अतिरात्रे षष्ठेहनि तृतीयसवने मैत्रावरुणशस्त्रे अग्नेभवेति तृचोनुरूपः सूत्र्यतेहि-अग्नेत्वन्नोअन्तमोग्नेभवसुषमिधासमिद्धइ- तिस्तोत्रियानुरूपाविति ।