सप्तमं मण्डलम् - सूक्तम् 49

4 ऋचः

ऋषिः: वसिष्ठः देवता: आपः छन्दः: त्रिष्टुप्

सूक्तम् 7.49 - सम्पूर्णम्

1 / 4
ऋक्: 7.49.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
7.49.1
स॒मु॒द्रज्ये᳚ष्ठाः सलि॒लस्य॒ मध्या᳚त्पुना॒ना य॒न्त्यनि᳚विशमानाः ।
इन्द्रो॒ या व॒ज्री वृ᳚ष॒भो र॒राद॒ ता आपो᳚ दे॒वीरि॒ह माम᳚वन्तु ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्र॑ज्ये᳚ष्ठाः । स॒लि॒लस्य᳚ । मध्या᳚त् । पु॒ना॒नाः । य॒न्ति॒ । अनि᳚॑विशमानाः ।
इन्द्रः᳚ । या । व॒ज्री । वृ॒ष॒भः । र॒राद᳚ । ताः । आपः᳚ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रज्येष्ठाः समुद्रोर्णवः ज्येष्ठः प्रशस्यतमोयासामपां ताः सलिलस्य अन्तरिक्षनामैतत् अन्तरिक्षस्य मध्यात् माध्यमिकात्स्थानात् यन्ति गच्छन्ति कीदृश्यः पुनानाः विश्वं शोधयन्त्यः अनिविशमानाः सर्वदागच्छन्त्यः वज्री वज्रभृत् वृषभः कामानां वर्षितेन्द्रः याः निरुद्धा- आपः रराद लिखति देवीर्देव्यस्ताआपः इहास्मिन्प्रदेशेस्थितं मां अवन्तु रक्षन्तु अभि गच्छन्तु वा ॥ १ ॥

7.49.2
या आपो᳚ दि॒व्या उ॒त वा॒ स्रव᳚न्ति ख॒नित्रि᳚मा उ॒त वा॒ याः स्व᳚यं॒जाः ।
स॒मु॒द्रार्था॒ याः शुच᳚यः पाव॒कास्ता आपो᳚ दे॒वीरि॒ह माम᳚वन्तु ॥
▶ पदपाठः (Word-by-word)
याः । आपः᳚ । दि॒व्याः । उ॒त । वा॒ । स्रव᳚न्ति । ख॒नित्रि᳚माः । उ॒त । वा॒ । याः । स्व॒य॒म्॑जाः ।
स॒मु॒द्र॑अ᳚र्थाः । याः । शुच᳚यः । पा॒व॒काः । ताः । आपः᳚ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

याआपः दिव्याः अन्तरिक्षभवाः सन्ति उतवा अपिच याआपः नद्यादिगताः सत्यः स्रवन्ति गच्छन्ति याश्च खनित्रिमाः खननेन निर्वृत्ताः उतवा अपिच याः स्वयंजाः स्वयमेव प्रादुर्भवंत्यः समुद्रएवार्थोगन्तव्योयासां ताः समुद्रार्थाः शुचयोदीप्तियुक्ताः पावकाः शोधयित्र्यश्च भवन्ति ताआपोमामवन्त्विति ॥ २ ॥

7.49.3
यासां॒ राजा॒ वरु᳚णो॒ याति॒ मध्ये᳚ सत्यानृ॒ते अ᳚व॒पश्य॒ञ्जना᳚नाम् ।
म॒धु॒श्चुत॒ः शुच᳚यो॒ याः पा᳚व॒कास्ता आपो᳚ दे॒वीरि॒ह माम᳚वन्तु ॥
▶ पदपाठः (Word-by-word)
यासा᳚म् । राजा᳚ । वरु᳚णः । याति᳚ । मध्ये᳚ । स॒त्या॒नृ॒ते इति᳚ । अ॒व॒॑पश्य᳚न् । जना᳚नाम् ।
म॒धु॒॑श्चुतः᳚ । शुच᳚यः । याः । पा॒व॒काः । ताः । आपः᳚ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणः यासामपां रजास्वामी मध्येमध्यमलोके याति गच्छति किंकुर्वन् जनानां प्रजानां सत्यानृते सत्यंचानृतंच अवपश्यन् जानन्नित्यर्थः याआपः मधुश्चुतः रसं क्षरंत्यः शुचयोदीप्तियुक्ताः पावकाः शोधयित्र्यः ताआपोदेव्योमां रक्षंत्विति ॥ ३ ॥

7.49.4
यासु॒ राजा॒ वरु᳚णो॒ यासु॒ सोमो॒ विश्वे᳚ दे॒वा यासूर्जं॒ मद᳚न्ति ।
वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि᳚ष्ट॒स्ता आपो᳚ दे॒वीरि॒ह माम᳚वन्तु ॥
▶ पदपाठः (Word-by-word)
यासु᳚ । राजा᳚ । वरु᳚णः । यासु᳚ । सोमः᳚ । विश्वे᳚ । दे॒वाः । यासु᳚ । ऊर्ज᳚म् । मद᳚न्ति ।
वै॒श्वा॒न॒रः । यासु᳚ । अ॒ग्निः । प्र॑वि᳚ष्टः । ताः । आपः᳚ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपांराजावरुणः यास्वप्सु वर्तते सोमः यास्वप्सु वर्तते यास्वप्सु स्थिताः विश्वे सर्वे देवाः ऊर्जमन्नं मदन्ति वैश्वानरोग्निः यासुप्रविष्टः ताआपोदेव्यःइहस्थितं मां अवन्तु ॥ ४ ॥

आमां मित्रावरुणेति चतुरृचं सप्तदशं सूक्तं वसिष्ठस्यार्षं चतुर्थ्यतिजगती व्यूहेनशक्वरीवा आदितस्तिस्रोजगत्यः प्रथमा मैत्रावरुणी द्वितीयाग्नेयी तृतीयावैश्वदेवी चतुर्थी गंगादिनदीदेवताका तथाचानुक्रमणिका-आमांमैत्रावरुण्याग्नेयी वैश्वदेवी नदीस्तुतिर्जागतमंत्या- तिजगती शक्वरीवेति । अस्यसूक्तस्य प्रत्यृचं विषादिहरणे विनियोगोलिंगादवगन्तव्यः ।