हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि᳚ निवे॒शय᳚ञ्च प्रसु॒वञ्च॒ भूम᳚ ॥
पदपाठः (Word-by-word)
हस्ते᳚ । दधा᳚नः । नर्या᳚ । पु॒रूणि᳚ । नि॒॑वे॒शय᳚न् । च॒ । प्र॒॑सु॒वन् । च॒ । भूम᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सुरत्नः शोभनरत्नोपेतः अन्तरिक्षप्राः स्वकीयेन तेजसा अन्तरिक्षस्य पूरयिता अश्वैः स्वकीयैर्वाहैः वहमानः उह्यमानः सविता सर्वस्य प्रेर- कोदेवो द्योतमानः आयातु आगच्छतु कीदृशः नर्या नर्याणि मनुष्यहितानि पुरूणि बहूनि धनानि हस्ते पाणौ दधानः दातुं धारयन् भूम भूतानि निवेशयञ्च रात्रिषु स्वेस्थाने स्थापयंश्च प्रसुवन् च अहःसु प्रेरयंश्च एवंभूतः सविता देवआयातु ॥ १ ॥