इ॒मा गिरः᳚ सवि॒तारं᳚ सुजि॒ह्वं पू॒र्णग᳚भस्तिमीळते सुपा॒णिम् ।
चि॒त्रं वयो᳚ बृ॒हद॒स्मे द᳚धातु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
चि॒त्रं वयो᳚ बृ॒हद॒स्मे द᳚धातु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
इ॒माः । गिरः᳚ । स॒वि॒तार᳚म् । सु॒॑जि॒ह्वम् । पू॒र्ण॑ग᳚भस्तिम् । ई॒ळ॒ते॒ । सु॒॑पा॒णिम् ।
चि॒त्रम् । वयः᳚ । बृ॒हत् । अ॒स्मे इति᳚ । द॒धा॒तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
चि॒त्रम् । वयः᳚ । बृ॒हत् । अ॒स्मे इति᳚ । द॒धा॒तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
इमा ईदृभूतागिरः गृणन्ति स्तुवन्तीति गिरः स्तोत्र्यः प्रजाः यद्वा इमाः स्तुतिरूपावाचः सुजिह्वं शोभनजिह्वं शोभनवाचमित्यर्थः पूर्ण- गभस्तिं संपूर्णधनं सुपाणिं शॊभनहस्तं सवितारं देवं ईळते स्तुवन्ति सच सविता चित्रं चायनीयं बृहन्महत् वयोन्नं अस्मे अस्मासु दधातु यद्वा अस्मे अस्मभ्यं प्रयच्छतु हे सवितृप्रमुखादेवाः यूयं नोस्मान् स्वस्तिभिः कल्याणैः सदा सर्वदा पात पालयत ॥ ४ ॥
इमारुद्रायेति चतुरृचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं रुद्रदेवताकं अंत्यात्रिष्टुप् शिष्टाजगत्यः तथाचानुक्रमणिका-इमारौद्रंत्रिष्टुबन्तमिति शूलगचाअदिषुरौद्रयज्ञेषुअनेनसूक्तेन उदीचीदिक् उपस्थेया सूत्र्यतेहि-इमारुद्रायस्थिरधन्वनइति सर्वरुद्रयज्ञेषु दिशामुपस्थानमिति ।