सु॒सं॒दृग्भि᳚रु॒क्षभि᳚र्भा॒नुम᳚श्रे॒द्वि सूर्यो॒ रोद᳚सी॒ चक्ष᳚सावः ॥
पदपाठः (Word-by-word)
सु॒स॒न्दृक्॑भिः᳚ । उ॒क्ष॑भिः᳚ । भा॒नुम् । अ॒श्रे॒त् । वि । सूर्यः᳚ । रोद᳚सी॒ इति᳚ । चक्ष᳚सा । आ॒व॒रित्या᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
जनानां सर्वप्राणिनां पथ्या पथिहितोषाः व्यावः व्यौच्छत् । यद्वा जनानां हिताय व्यौच्छदिति योज्यम् । किंकुर्वती मानुषीर्मनुष्यरूपाः पञ्चक्षितीः निषादपञ्चमांश्चतुरोवर्णान्बोधयन्ती ईदृश्युषाः । सुसन्दृग्भिः सन्दृश्यते सन्दर्शयतीतिवा सन्दृक् तेजः सुतेजोभिः उक्षभिः गोभिर्भानुमश्रेत् । अरुणैरुषाआजिमधावन्नितिहिश्रुतिः । अरुण्योगावउषसामितिनिरुक्तम् । सूर्यश्च रोदसी द्यावापृथिव्यौ तमोयुक्ते चक्षसा प्रकाशकेन तेजसा व्यावोविवृणोति ॥ १ ॥